Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 349
________________ ३३६ . .: काव्यमाला। भ्युदयादिवर्णनम्, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनम्, इति । उभयवैचित्र्यं यथा-रसानुरूपसंदर्भत्वम्, अर्थानुरूपच्छन्दस्त्वम् , कुवलयाश्वचरित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ । कुमारवर्णनं रघुवंशादौ । वाहनवर्णने हस्त्यश्वगरुत्मत्पुष्पकावर्णनानि हरिविजय-रावणविजयादौ । मन्त्रेत्यादिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृन्महाकाव्यं भवतीत्यभिधत्ते । तत्र मन्त्रः पञ्चाङ्गः प्रतिपादितः । स यथा-किरातार्जुनीय-शिशुपालवध-भट्टिकाव्य-हयग्रीववधादौ । दूतस्त्रिधानिसृष्टार्थः, परिमितार्थः,शासनहरश्च । निसृष्टार्थो यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वासात्यकिः । परिमितार्थो यथा-'रामायणेऽङ्गदः । शासनहरो यथाकादम्वों केयूरक इति । प्रयाणं त्रिधा-खशक्त्यपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र वशक्त्यपचये यथा-रघुवंशे। परव्यसने यथा--जरासंधव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे। अभिमतार्थसिद्धये यथा-विष्णोः पारिजातहरणाय हरिविजजये, यथा वा-दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीये इति । संग्रामस्त्रिधा-समः, विषमः, समविषम इति । तत्र समः-द्वन्द्वयुद्धे चतुरङ्गयुद्धे च । द्वन्द्वयुद्धं यथा-रामरावणयोः । 'चतुरङ्गयुद्धं कुरुपाण्डवानाम् । विषमो यथा-रामस्य खरदूषणनिशिरोभिः सह 'चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । हतान्येकेन रामेण मानुषेण पदातिना ॥' इति । संमवि‘पमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये रघुमघोनोर्वा रघुवंश इति । अभ्युदयस्त्रिधाअरिविजयः, स्त्रीलाभः,पुत्रोत्पत्तिः । तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च। स पूर्वो रावणवधादौ, द्वितीयो हरिविजयादौ । स्त्रीलाभो यथा--इन्दुमतीस्वयंवरे। पुत्रलाभो दिलीपस्य रघुवंश इति । वनविहारेत्यादिना सोद्दीपनविभावस्य संभोगशृङ्गारस्योपदेशात् । मन्त्रभूतप्रयाणसंग्रामाभ्युदयादिभिस्ताननधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुपयोगः कर्तव्य इति शिक्षयति । तत्र वनविहारो द्विधा--मृगयादिः, पुष्पावचयादिश्च । तत्राद्यो यथा--दशरथस्य रघुवंशे । द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीय इति । जलक्रीडा द्विधा-एकस्य वा वह्वीभिः स्वयोषाभिर्वहूनां वा वह्वीभियथास्वमङ्गनाभिः । तत्राद्या यथा-कार्तवीर्यस्य नर्मदायाम् , कुशस्य वा सरय्वाम् । द्वितीया - यथा-अप्सरसां सिद्धसिन्धौ, यदूनां रैवतकहद इति । मधुपानं द्विधा-गोष्ठीगृहे, वासभवने च । तत्राद्यं हरिविजये शिशुपालवधे च । द्वितीयं 'किरातार्जुनीये कुमारसंभवे च ॥ मानापगमो द्विधा--प्रायनिकः, नैमित्तिकश्च । प्रायनिको हरिविजये सत्यभामायाः । नैमित्तिको रामान्तिकानिशाचरीणां सेतुवन्धे । रतोत्सवोऽपि द्विधा-सामान्यतः, विशेषतश्च । सामान्यतः किरातार्जुनीये शिशुपालवधे च । विशेषतः कुमारसंभवे जानकीहरणे च ।रलानुरूपसंदर्भत्वमिति । अनेन रतिप्रकर्षे कोमलः, उत्साहप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकर्षे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्दसंदर्भो विरचनीय इति उपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' इति ख्यापयति । अर्थानुरूपच्छन्दस्त्वमिति । अनेन

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376