Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः]
काव्यानुशासनम् ।
३३७
समस्तलोकरजकत्वम् , सदलंकारवाक्यत्वम् , देशकालपात्रचेष्टाकथान्तरानुषञ्जनम्, मार्गद्वयानुवर्तनं च, इति । * तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि । अपभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि । ग्राम्यापभ्रंशभाषानिबद्धावस्कन्धकबन्धं भीमकाव्यादि । प्रायोग्रहणात्संस्कृतभाषयाप्याश्वासकबन्धो हरिप्रबन्धादौ न दुष्यति । प्रायोग्रहणादेव रावणविजय-हरिविजय-सेतुबन्धेष्यादितः समाप्तिपर्यन्तमेकमेव च्छन्दो भवतीति । गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते ।
-
शृङ्गारे द्रुतविलम्बितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निवन्धनीया इत्युपदिशति । समस्तलोकरञ्जकत्वमिति। अनेनालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रवन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यमपाकरोति। सदलंकारवाक्यत्वमिति । अनेन यद्यप्युपात्तलक्षणानां गुणानामलंकाराणां च खरूपसांकर्येणैव काव्यशोंभाकरत्वम् तथाप्यलंकारवनैवैनं भारं भूयसा उद्वोढुमलमित्येतदुपर्युपदेशेनोपपादयति । देशेत्यादिना परिपूर्णाङ्गेऽपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति । तत्र देशान्तरानुषजनं यथा-'मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गः। भवन्तिनोद्दामगिरां कवीनामुच्छायसौन्दर्यगुणा मृषोद्याः ॥' कालान्तरानुषञ्जनं यथा —'सपदि हरिसखैर्वधूनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः। युगपदनुगुणस्य संनिधानं विचति वने च यथायथं वितेने ॥' पात्रान्तरानुपञ्जनं यथा-'करिष्यसे यत्र सुदुष्कराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणानेष्यति गुह्यकस्त्वाम् ॥' चेष्टान्तरानुषञ्जनं यथा-'मदश्युतः इयामितगण्डलेखाः कामन्तविक्रान्तनराधिरूढाः । सहिष्णवो वेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥' कथान्तरानुषञ्जनं यथा-'कुसुमायुधपनि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणागतः सैलभत्वं हरलोचनार्चिषाम् ॥' मार्गद्वयानुवर्तनमिति । अनेन महाकवीनां समयमुपलक्षयति । तत्र 'गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः॥ वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयानायकोत्कर्षकथनं च धिनाति नः॥' इति । (अर्थाः का) एतानि नगरवर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि । समुच्चयप्रयोज्यानीति चेत्, किरातार्जुनीयादौ किरातार्णवार्कोदयविवाहकुमाराभ्युदयादीनामभणनम् ।
१. 'धिनोति' स्यात्. २. प्रमादपतितं स्यात्.

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376