Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 347
________________ ३३४ काव्यमाला | शब्दवैचित्र्यं यथा -- असंक्षिप्तग्रन्थत्वम्, अविषमबन्धत्वम् अनतिविस्तीर्णपरस्परनिबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तु निर्देशोपक्रमत्वम्, वक्तव्यार्थतत्प्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसासुजनदुर्जनखरूपवदादि म्भयत्नप्रत्याशानियताप्तिलक्षणास्तेषां सह वीजिभिर्वजविकारैः क्रमेणावस्थाचतुष्टये भवद्भिरित्युद्घाटनोद्भेदलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखात्मकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयन्ति यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निवर्हणं फलयोगोऽवस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिभावबाहुल्यं धृतिहर्षगवैौत्सुक्यमदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम्, दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभावबाहुल्यम् । आलस्यौग्यव्यभिचारिभाववाहुल्यं च द्रष्टव्यम् । रत्नावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्यासमाप्तेरेषामवस्थासंध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम् । न त्वेकमुखेनैवेति । असंक्षिप्तग्रन्थत्वमिति । अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति । अविषमबन्धत्वमिति । अनेन शब्दसंदर्भवेदिनां मनो मुदमादधाति । अनतिविस्तीर्ण परस्परनिबद्धसर्गादित्वमिति । अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति । सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति । आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वमिति । तत्र आशीर्यथा हरविलासे—‘ओमित्येकाक्षरं ब्रह्म श्रुतीनां मुखमक्षरम् । प्रसीदतु सतां खान्तेष्वेकं त्रिपुरुषीमयम् ॥' नमस्कारो यथा रघुवंशे - ' वागर्थाविव-' इत्यादि । वस्तुनिर्देशो यथा हयग्रीववधे~~‘आसीद्दैत्यो हयग्रीवः' इत्यादि । वक्तव्यार्थेत्यादि । वक्तव्यार्थ - प्रतिज्ञानं यथा सेतुबन्धे - "तं तिअसवन्दिमोक्खं समत्तलोअस्स हिअअसद्दुद्धरणम् । सुह अणुराहइन्हं सीयादुक्खक्खयं दसमुहस्स वहम् ॥' प्रयोजनोपन्यासो यथा - 'परिवह विन्नाणं संभाविज्जइ जसो विटप्पन्ति गुणा । अव्वइसुपरिसुचरिअं कित्तं जेण हरन्ति कव्वा - लावा ॥' कविप्रशंसा यथा रावणविजये - 'सैयलं चेव निवन्धं दोहिं पएहिं कसं पसण्णन्तविअं । जाणन्ति कईण कई सुद्ध सहोवेहिं लोअणेहिं व हिअअम् ॥' सुजनदुर्जनस्वरूपं 'तं त्रिदशवन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम् । शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम् ॥' [ इति च्छाया ] 1 ॥' [ इति च्छायां ] 1 ॥ [ इति च्छाया ]

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376