Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
३२६
काव्यमाला। प्रतिपद्यन्ते । तत्रापि धर्माराधने दानतपोयोगरूपमनुष्ठानं यशस्करं दृष्टफलमामुष्मिकफलं च व्युत्पाद्यते । अर्थाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभपालनसमेधनफलविनियोगपर्यन्ता कपटातिसंधानबहुला संधिविग्रहात्मिका राजवृत्तिव्युत्पाद्यते । कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृतशौचासु च स्वाधीनपतिकादिषु अष्टासु परस्परावलोकनादि, दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राज्ञस्तासां च राजनि व्युत्पाद्यते । तथा राज्ञामभ्यन्तरोपभोगे महादेवी देवी खामिनी स्थापिता भोगिनी शिल्पकारिका नाटकीया नर्तकी अनुचारिकापचारिका प्रेषणकारिका महत्तरा प्रतीहारी कुमारी स्थविरा युक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथाखं राजनिवृत्तिः। तथा स्थापत्यकञ्चुकिवर्षवरोपस्थायिकनिर्मुण्डादीनामन्तर्भवनकक्षासंचारः । तथा युवराजसेनापतिमन्त्रिसचिवप्राडिवाककुमाराधिकृतानां वाह्यसंचारिणां वृत्तम् । तथा विदूषकशकारचेटादिवृत्तं व्युत्पाद्यते । नायकप्रतिपक्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते ॥ प्रकरणे तु सचिवसार्थवाहादीनां पूर्ववत्खाचिता त्रिवर्गप्राप्तिस्तदर्जनस्थैर्यधैर्यादि, व्यापत्खमूढता, कुलस्त्रियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो वैशिष्टनायकलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देशकालौ नायिकाया रागापरागलिङ्गानि नायकयोरपरागकारणानि नायका हृदयग्रहणमप्रयोगः । उत्तममध्यमाधमनायिकालक्षणयैव न लाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेददण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते ॥नाटिकायां तु विलासपराणां राज्ञां धर्मार्थाविरोधिरतिफलं वृत्तं नाटक इव व्युत्पाद्यते ॥समवकारे च देवासुरनिमित्तो युद्धादिसंभवो विद्रवस्तथा कपटः संक्षिप्तश्च शृङ्गारो हास्यादि सर्वमेव लौकिकीभिरुपपत्तिभिहीनं दिव्यप्रभावसाध्यं व्युत्पाद्यते । पूर्वापरानुसंधानशून्यधियां प्रहसनकपटविद्रवादिरुचीनां पुस्तावप्लुतलङ्घनच्छेद्यमायेन्द्रजालचित्रयुद्धादि बहुलयारभट्या परितोष उत्पाद्यते । तथा चाह—'शरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । बाला मूर्खाः स्त्रियश्चैव हास्यशोकभयादिषु ॥' तुष्यन्तीति गम्यते । इष्टं देवता कर्मप्रभावानुकीर्तनाच्च तद्भक्तानां प्रीतिः । यात्राजागरादिषु च प्रेक्षाप्रवर्तनं च ॥ ईहामृगडिमयोरप्येवमेव ॥ व्यायोगे तु . मन्त्रिसेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धाधर्षणसंघर्षबहुलं व्युत्पाद्यते॥उत्सृष्टिकाङ्के चोत्तमानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरिदेवितवहुलं वृत्तं प्रेक्षकाणां चित्तस्थेयं विधातुं व्युत्पाद्यते । एवंविधव्यसनपतितानां चित्तस्थैर्यात्पुनरुत्पत्तिदृश्यते इति तत्प्रयोगदर्शनात्प्रतिपद्यमाना व्यसनेऽपि न विषीदन्ति ॥ प्रहसने तु स्त्रीवालमूर्खाणां हास्यप्रयोगदर्शनेन नाट्ये प्ररोचना क्रियते । ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते । प्रसङ्गतश्च भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृत्तं शुद्धं तथा वेश्याचेटनपुंसक- :विटधूर्तवण्टकीप्रभृतीनां प्रवर्तकाख्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्तादम्भधूर्तविवा- : दबहुलं त्याज्यतया व्युत्पाद्यते ॥ भाणे च धूर्तविटवेश्याशंभलीनां परस्य वञ्चनपरं प्रेक्ष
१ 'खोचिता' स्यात् .

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376