Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 337
________________ ३२४ काव्यमाला । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनम् । कार्यः काव्यविधिज्ञैः सततं द्युत्सृष्टिकाङ्कस्तु ॥' 'प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥ भगवत्तापस विप्रैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अधिकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसक विटधूर्ता बन्धकी च यत्र स्युः । अनियतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् !' 'आत्मानुभूतशंसी परसंशयवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ देवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादृशि भाषितानि यत्र । व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः । सात्वत्यारभरिकैशिकीहीनमिति । समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणोन्मुखा दृष्टिजीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः ॥ प्रहसनमपीति । अपिशब्दो भिन्नक्रमः । तथेति । सामान्ये लक्षणम् । तदयमर्थः । द्विविधमपि ग्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः । अन्ये शाक्तादयस्तैरुपलक्षितं हास्यप्रधानवचनसंबद्धं शीला - दिना कुत्सितैः पुरुषैः अत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न विकृतावसत्याश्लीलरूपौ तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन् । नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीय - लक्षणोऽर्थो यत्र तच्छुद्धं प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र वाहुल्येन भवन्ति । तेन यत्रैकस्यैव कस्यचिचरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योगोऽत्युल्बणं वा कल्पादि तदेकद्वारेणानेकवेदयादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम् । आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मा 1 १. 'सृष्टि' स्यात्.

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376