Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 333
________________ ३२० काव्यमाला | 'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुगीतनृत्यवाद्या रतिसंभोगात्मिका चैव ॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीस परिजना नाटिका ज्ञेया ॥' समवकारस्तु 'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ' ॥ इति | तम् । प्रकरणेति । बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशृङ्गारप्रायात् कैशिकी प्रधानाच्च प्रकरणभेदान्नाटकभेदाच्च नाटिका ज्ञेयेति दूरेण संवन्धः ॥ उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां वाधिकृत्य प्राप्यत्वेनाभिसंधाय कर्तव्या च। तेन स्त्रीप्राप्तिः संभोगशृङ्गारोऽभ्यन्तरः कैशिकी च वृत्तिः । तथावस्थासंध्यङ्गार्थ प्रकृतिपताकाप्रकरीयताकास्थानाविष्कम्भकप्रवेशकादीन्युभयभेदसाधारणानि नाटिकायां प्रयोज्यानि । यदपि किंचित्साधारणं तदपि योज्यते । अतश्च 'उत्पाद्यं वस्तु' इति प्रकरणधर्मः । ‘नायकं नृपतिम्' इति नाटकधर्मः । ' अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्च नाटकधर्म एव ।। अथास्य विशेषलक्षणमाह-- स्त्रीप्रायेति । स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । सुष्ठु पूर्णतया विहितानि चत्वार्यप कैशिक्यङ्गानि यत्र । एतेन स्त्रीप्रायेति ललितेति बहुनृत्येति च कैशिकीं वृत्तिं बाहुल्येन दर्शयति । रतिपुरःसरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह – राजगतैरुपचारैर्व्यवहारैर्युक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति - प्रसादनेति । आर्यानुरोधात्कोधस्य पश्चात्पाठः । ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्कयाह — नाय - केति । नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ॥ देवासुरेति । देवासुरस्य यद्वीजं फलसंपादनोपायस्तेन कृतो विरचितः । देवासुरा अपि वा प्रख्याता वृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षया दूतास्तथापि स्त्रापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापन्ना (?) त्र्यङ्क इत्युक्तम् । कपटो वञ्चना

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376