Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 332
________________ ३१९ ८ अध्यायः काव्यानुशासनम् । यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविध तज्ज्ञेयं प्रकरणं नाम ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम ॥ दासविटश्रेष्ठियुतं वेशख्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्ये कार्य प्रकरणे तु ॥' तकविः प्रकरणं कुर्यादिति ताहव्यन्नाटके इति । भागम् ॥ वृत्तिभेदा तदा प्रकरणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णनेऽप्यधिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम् ॥ नन्वस्येतिवृत्तस्य कथं योजनेत्याशङ्कय पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह-यन्नाटके इति । 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फलचयमुक्तं तद्वस्तुशरीरमित्यङ्कप्रवेशकाद्यम् ॥ वृत्तिभेदाश्चेति । नानारसभावचेष्टितैर्वहुधा सुखदुःखोत्पत्तिकृतमिति ॥ सलक्षणमिति । लक्षणमङ्कपरिमाणम् । अङ्कान्तरसंनिधानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्य यद्यकेनोपपद्यत इत्यादि तत्सर्व प्रकरणेऽपि योज्यम् ॥ अतिदेशायातमतिप्रसङ्गं वारयत्यार्याद्वयेन-विप्रेत्यादि । अमात्योऽधिकृतः । सार्थवाहो दिगन्तरात्पण्यानामाहर्ता । तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव । नेकविधमित्यनेकरसयुक्त इति । तदितिदेशमात्रमिति सूचितं प्रख्यातोदात्तेत्यतिप्रसक्तं निषेधति । तनिषेधे चार्थानाटकवैपरीत्यमायातम् । नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत आह-न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदतिदेशाद्देवानामुपायत्वेन प्रयोज्यत्वं प्रसक्तम् , तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि राज्ञः प्रवेशं शङ्कमानो निराकरोति-नराजसंभोग इति । यदि वात्रौत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति । अत एव राजनि य उचितोऽन्तःपुरजनःकञ्चकिप्रभृतिस्तव्यतिरिक्तो वाह्यजंनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः । एतदेव दर्शयति-दासविटेति। कञ्चकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्धः स कारणं यस्य शृङ्गारस्य तेनोपेतम् । कुलस्त्रीविषयं चेष्टि १. 'कार्य केवलमुत्पाद्यवस्तु स्यात्' भरतैकपुस्तके. १. 'तदतिदेशमात्र' स्यात्. २. 'नोदात्तनायकेति' इति प्रतीकं त्रुटितं भवेत्.

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376