Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
३१८
काव्यमाला ।
नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ||' 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैत्र । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ यदनार्थमथाहार्यं काव्यं प्रकरोत्यभृतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ||
त्तस्याक्षेपात् । प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-- नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभावैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादे: संपत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची | तत्प्रधानाभिः फलसंपत्तिभिर्युक्तमित्यर्थः । तेन राज्ञा सर्व राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतमित्येवंप्रायं फलं नोपनिबद्धव्यम् । धर्ममोक्षवहुलमिति । दृष्टसुखार्थी हि वाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसी भवेत् । गुणैरिति || अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतागतान्यपनयप्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहात् जनकोशादिसंपत्तिर्ऋद्धिः । कौमुदीमहोत्सवादयो विलासाः । संधिविग्रहादयो गुणा इति चाणक्यपरिया(?)वेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्याप्यर्थस्य राशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्ताय ये विच्छेदा अङ्कास्तैः पञ्चाद्यैर्दशाधरैः ये च निमित्तबलादप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकास्तैश्वाढ्यं तन्नाटकं नाम रूपकम् ॥ आत्मशक्त्येति | इतिहासादिप्रसिद्धिं निरस्यति। वस्त्विति । साध्यं फलम् । शरीरमिति । तदुपायम् । नायक' मिति । साधयितारम् । चकारः पूर्वसमुच्चये । द्वितीयस्त्वसमग्रसमुच्चये । एवकारः समुन्चयाभावे । उत्पत्तौ भवमौत्पत्तिकं निर्मितम् । तदयमर्थः -- त्रितयमपि यत्र विकृतं द्वयमेकं वा, अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणम् । भेदसप्तकमयम् । वस्त्वादिकं का व्याभिधेयमात्मशक्त्या प्रकुरुते यत्र काव्ये तत्प्रकरणमिति बुधैर्ज्ञेयमिति संवन्धः ॥ यत्र सर्वमुत्पाद्यं भवति तत्र योऽनुत्पाद्योंऽशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति । पुराणादिव्यतिरिक्तवृहत्कथाद्युपनिबद्धं मूलदेवतच्चरितादि ॥ आहार्यमिति । पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्ततश्चेष्टितादि ॥ ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्नेति । पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते
१. 'कुरुते प्रभुत' भरते.

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376