Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
६ अध्यायः
काव्यानुशासनम् ।
२९३
यम् ॥ यथासंख्यमिति कसिधा बससि चेतसि मामिणा च विनयेन च आमुख
भावमात्रं यथासंख्यं दोपाविधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधह- - द्यत्वविरहात् ॥ भाविकं तु भूतभाविपदार्थप्रत्यक्षीकारात्मकमभिनेयप्रवन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते, तथापि न तत्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणमतिशयोक्तेर्जातेर्वा न भिद्यते । महापुरुपवर्णनारूपं च यदि रसपरं तदा ध्वनेविषयः ॥ यम् ॥ यथासंख्यमिति । तथा चाह-'यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः' इति । यथा--'एकत्रिधा वससि चेतसि चित्रमेव देव द्विपां च विदुपां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुणशौर्याप्मणा च विनयेन च लीलया च॥ इति । अत्र न यथासंख्यकृतं किमपि वैचित्र्यं किंतु एकत्रिधा वससीति आमुखे विरोधप्रतीतिकृतमेवेति ॥ विनोक्तिस्त्विति । तथा चाह-'विनोक्तिः सा वि. नान्येन यत्रान्यः सन्न नेतरः' इति । सन् शोभनः, इतरोऽशोभनः । यथा'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतातिसुन्दराशयोऽयं मुहदा तेन विना नयेन्द्रसूनुः ॥', 'अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥' इति उदाहरणद्वयेऽपि वदन्तु सहृदयाः यदि किमपि विनोक्तिकृतं वैचित्र्यभवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेर्युक्तमेव वैचित्र्यमिति । किंच-~-शब्दमानयोगेनालंकारत्वकल्पने हा धिगायुक्तावप्यलंकारत्वप्रसाः प्राप्नोतीति ॥ भाविकमिति । भावः कवेरभिप्रायः स यत्रास्ति तद्भाविकम् । भूतभाविपदार्थप्रत्यक्षीकारात्मकमिति । प्रध्वंसाभावनागभावक्रान्ता अपि भावाः स्वमहिम्नायः प्रसादवशाच यत्पुरः स्फुरन्त इव दृश्यमाना वध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्वहेतुवर्णनमिति तु व्याख्याने खभावोक्तिर्न भिद्यते । अभिनेयप्रवन्ध एवेति । प्रवेशकविष्कम्भकादिभिस्तत्रैव तत्र वर्ण्यमानत्वादिति भावः ॥ ननु-'आसीदअनमत्रेति पश्यामि तव लोचने । भाविभूपणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥' अनाद्येऽर्थे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशयाह-यद्यपीति ॥ ऋद्धिमद्वस्तुलक्षणमिति । यदाह—'उदात्तं वस्तुनः संपत्' इति । यथा-'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीनि मन्धरचलद्वालानिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्पन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' न ह्यतिशयैश्वर्योऽपि मुक्तारत्नानामवाकरप्रायत्वेन पुत्रीकरणं संभवति । उक्तं च-'असंवन्धे संवन्धात्मिकामतिशयोक्तिमवगमयति' । तदाह-अतिशयोक्तिरिति । अतिशयोक्तेरलंकारान भिद्यत इत्यर्थः ।।
१. 'मन' का० प्र०. २. 'चेतःप्रसाद' स्यातू. ३. 'स्तद्दान' का० प्र०. ४. 'श्वर्य' स्यात्. ५. 'क्तेरिति' मूलानुसारी.

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376