Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 307
________________ २९४ काव्यमाला । अथ तथाविधवर्णनीयवस्तु परम्, तदा गुणीभूतव्यङ्गयस्येति नालंकारः ॥ रसवत्प्रेयस्व्यूर्जस्विभावसमाहितानि गुणीभूतव्यङ्गयप्रकारा एव || आशीस्तु प्रियोक्तिमात्रं भावज्ञापनेन गुणीभूतव्यङ्गयस्य अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्कयाह — खभावो - तेर्वेति । किं च । यदि ऋद्धिमद्वस्तुवर्णनमलंकारस्तदा ऋद्धिरहितवस्तुवर्णनमप्यलंकारं कश्चित्प्रसजतीति । महापुरुषवर्णनारूपमिति । यदाह - 'महतां चोपलक्षणम्' इति । यथा—‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्वाहुसहायश्चकार 'रक्षःक्षयं रामः ॥ ' रामो हि पितृवचनमनुतिष्ठन्नयपराक्रमादिधर्मयोगादुत्साहयोगाच्च वीर - रसवानेवेति रसध्वनिरेवायम् ॥ ननु उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे । ततश्चोपलक्षणीभूतस्य रामचरितस्य वाक्यार्थी भावाभावादङ्गत्वमेव । दण्डकारण्योत्कर्षप्रतिपत्तिर्हि वाक्यार्थः सैव प्रधानं ततः कथं ध्वनिविषयतेत्याशङ्कयाह - अथेति । गुणीभूतव्यङ्गयप्रकारा एवेति । मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः । आशीस्त्विति । आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथ वा आशास्यमानो योऽसावर्थोऽनर्थप्राप्त्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीर्विषयत्वादाशीरिति । तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीर्यदि प्रयुज्यते तदा " गतोऽस्तमर्कः' इत्यादिवद्वातीवर्णनमात्रत्वाद्दूरापेतैवालंकारतेत्याह-- प्रियोक्तिमात्रमिति । सहदयानां किमप्येतदिति चमत्काराभावादित्यर्थः ॥ अथ स्नेहातिशयेनोच्यते, तदा ध्वनेर्विषयः । तथा हि कश्चित्कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्क्ते तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारेण प्रतीयत इति भावध्वनिरेवायम् । यथा—‘अस्मिञ्जहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुनानतमादरेण । विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥' कयोश्चिन्मैत्रीसंवन्धे पिशुनजनानुप्रवेशनविच्छार्य : ( ? ) कृते सति कस्यचिन्नायकस्य तत्स्नेहदादर्द्धसंपादनायेयमुक्तिः । अत्र च सौहृदमप्यर्थप्राप्तिरूपं मैत्रीसंबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थना पञ्चम्यन्तौ । उक्षत्विति प्राप्तकालतायां पञ्चमी तेनात्राशास्यमानस्य मैत्रीसंबन्धस्योपनिबन्धो न त्वप्राप्तप्राप्तीच्छात्मिका आशिषः । तथा'मदान्धमातङ्गविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरीः पश्यतु राजलोकः ॥' अत्र शत्रुनगरीविनाशोपनिबन्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोपनिबन्ध एव ॥ नन्विदं भूयादित्येवमात्मिकायाः प्रयोक्तधर्मत्वेनावस्थिताया आशिषोऽत्रोपदर्शनम् । तथा ह्येवंविधा शत्रुनगरी राजलोको दृश्यादिति नाय - मत्रार्थः संपन्नत्वादेतस्यार्थस्य किंतु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतया 1 १. ‘विच्छायीकृ’ स्यात्. २. - ३. लोटो लकारस्य पञ्चमीनामाभिधेयत्वं स्यात्.

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376