Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 325
________________ ३१२ काव्यमाला | 'त्रिहिपिच्छकण्णऊरा जाया वाहस्स गविरी भमइ । मुत्ताहलरइयपसाहणाण मज्झे सवत्तीणम् ॥' इष्टेऽप्यवज्ञा विव्वोकः । सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विव्वोकः । यथा'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥' वागङ्गभूषणानां व्यत्यासो विभ्रमः । वचनेऽन्यथावक्तव्येऽन्यथाभाषणं हेस्तेवादातव्ये पादेनादानं रसनायाः कण्ठे न्यासः । यथा ' चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्तिनितम्बबिम्बे च बबन्ध हारम् ॥' स्मितहसितरुदितभयरो पगर्व दुःखश्रमाभिलाषसंकरः किलिकिं चितम् । सौभाग्यगर्वात्स्मितादीनां संकरः किलिकिंचितम् । यथा— ' रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्या वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित स्मितक्रुद्धोद्धान्तं पुनरपि विदध्यान्मयि सुखम् ॥' प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वं ततो योद्भूता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गपर्यन्ताङ्गमोटनान्मोट्टायितम् । यथा— 'स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलर चितप्रसाधनानां मध्ये सपत्नीनाम् ॥' [इति च्छाया. ] २. 'हस्तेना' स्यात्.

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376