Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 326
________________ ७ अध्यायः काव्यानुशासनम् । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा ___ नतवलयितबाहर्जम्भितैः साङ्गभङ्गैः ॥' अधरादिग्रहादुःखेऽपि हर्षः कुट्टमितम् । अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुट्टमितम् । यथा'ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्गायाः सुरतावसानसमये दृष्टं मया यन्मुखं वेदार्दीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते ॥' मसृणोऽङ्गन्यासो ललितम् । अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललितम् । यथा 'सभ्रभङ्गं करकिसलयावर्जनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया खैरपातै निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥' कर्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलास - यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यवुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः । व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् । व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौर्यलज्जादिपरिग्रहः । ततो भापणावसरेऽप्यभाषणं विहृतम् । यथा--- 'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । . . सा रजयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ __ राज्ञां मुख्यं फलम् । यथाह-'प्रजायै गृहमेधिनाम्' इति ॥ अनेनेति । अलक्तकोपर

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376