Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
(मलय ० ) – 'पल्ल' त्ति - पल्योपमासंख्येयभागेन न्यूनं यदेकं सागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादुकर्मप्रकृतिः द्धृत्य संज्ञिपश्चेन्द्रियमध्ये समायातः । तस्य यतः समयादारभ्यान्तर्मुहूर्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणाऽपगमिष्यति तस्मिन् समये सम्यग्मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा । एकेन्द्रियसत्कजघन्यस्थितिसत्कर्मणश्च सकाशादधो वर्तमानं सम्यग्मिथ्यात्वमुदीरणायोग्यं न भवति । तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वोदयसंभवतस्तदुद्वलनसंभवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ यस्य वैक्रियपदकस्य - वैक्रियशरीरवैक्रिय संघातवैक्रियबन्धनचतुष्टयरूपस्य तत् द्विसप्तभागं वैक्रियं, ततो विशेषणसमासः, प्राकृतत्वात्स्त्रीत्व निर्देशः, इहापि च 'पल्लासंखियभागेण' इत्यनुवर्तते, ततश्च तस्य द्विसप्तभागवैक्रियषट्कस्य पल्योपमासंख्येयभागहीनस्य पवनस्य- बादरवायुकायिकस्य तस्य - वैक्रियस्य पर्यन्तसमये जघन्या स्थित्युदीरणा । एतदुक्तं भवति - बादरवायुकायिकः पल्योपमासंख्येय भागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषट्कजघन्य स्थितिसत्कर्मा बहुशो वैक्रियमारभ्य चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यां स्थित्युदीरणां करोति । अनन्तरसमये च वैक्रियषट्कमेकेन्द्रिय सत्कजघन्य सत्क र्मापेक्षया स्तोकतरमिति कृत्वा उदीरणायोग्यं न भवति किन्तूइलनायोग्यम् ॥४०॥
( उ० ) – पल्यासंख्येयभागोनोदधेः पल्योपमासंख्येयभागेन न्यूनं यदेकसागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मण एकेन्द्रियागतस्यै केन्द्रियभवादुद्धृत्य संज्ञिपञ्चेन्द्रियमध्ये समायातस्य यतः समयादारभ्यान्तर्मुहूर्त्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणा निवर्तिष्यते तस्मिन् समये सम्यग्मिथ्यात्वं प्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा, एकेन्द्रियसम्बन्धिजघन्य स्थितिसत्क|र्मणः सकाशादधो वर्तमानं च सम्यग्मिथ्यात्वं नोदीरणायोग्यं तदधस्तनस्थितिके तस्मिन् सत्यवश्यं मिथ्यात्वोदयसंभवेन तदुलन
॥६१॥
VASKasa
52
स्थित्युदीरणा
॥६१॥

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212