Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 173
________________ hom Maha त्रयाणामनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, संज्वलनलोभस्य सूक्ष्मसंपरायस्य, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुभागोदीरणा, निद्राप्रचलयोरुपशान्तमोहे तस्य सर्वविशुद्धत्वात् ॥७०॥ निद्दानिद्दाईण मत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥ ७१ ॥ ( ० ) - 'निद्दानिद्दाइणं पमत्तविरते विसुज्जमाणम्मि' त्ति - निद्दानिद्दापयलपयलाथीणगिद्धीणं पमत्तसंजओ विसुज्झमाणो अपमसाभिमुहो जहण्णाणुभाग उदीरतो । 'वेयगसम्मत्तस्स उ सगखवणोदीरणा चरमेत्तिखाइयसम्मत्तं उप्पाएमाणस्स मिच्छत्तसम्मामिच्छत्ते खविए सम्मत्तस्स समयाहियावलियसेसाए ठितीए जहण्णाणुभागउदीरणा अण्णयरस्स चउगतिगस्स विसुद्धस्स होइ ॥ ७१ ॥ ( मलय ० ) - ' निद्दानिद्दाईणं'ति । निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानां प्रमत्तसंयतस्य 'विशुद्धयमानस्य' अप्रमत्त| भावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा क्षायिकसम्यक्त्वमुत्पादयतो मिध्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः वेदकसम्यक्त्वस्य - क्षायोपशमिकस्य सम्यक्त्वस्य क्षपणकाले 'चरमोदीरणायां' - समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा भवति । सा च चतुर्गतिकानामन्यतरस्य वेदितव्या ॥ ७१ ॥ (उ० ) — निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानधनां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्तभावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा वेदकसम्यक्त्वस्य- क्षायोपशमिकसम्यक्त्वस्य क्षायिक सम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वक्षपणानन्तरं स्वकक्षपणकाले उदीरणा चरमे-चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा Dha

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212