________________
hom Maha
त्रयाणामनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, संज्वलनलोभस्य सूक्ष्मसंपरायस्य, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुभागोदीरणा, निद्राप्रचलयोरुपशान्तमोहे तस्य सर्वविशुद्धत्वात् ॥७०॥
निद्दानिद्दाईण मत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥ ७१ ॥ ( ० ) - 'निद्दानिद्दाइणं पमत्तविरते विसुज्जमाणम्मि' त्ति - निद्दानिद्दापयलपयलाथीणगिद्धीणं पमत्तसंजओ विसुज्झमाणो अपमसाभिमुहो जहण्णाणुभाग उदीरतो । 'वेयगसम्मत्तस्स उ सगखवणोदीरणा चरमेत्तिखाइयसम्मत्तं उप्पाएमाणस्स मिच्छत्तसम्मामिच्छत्ते खविए सम्मत्तस्स समयाहियावलियसेसाए ठितीए जहण्णाणुभागउदीरणा अण्णयरस्स चउगतिगस्स विसुद्धस्स होइ ॥ ७१ ॥
( मलय ० ) - ' निद्दानिद्दाईणं'ति । निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानां प्रमत्तसंयतस्य 'विशुद्धयमानस्य' अप्रमत्त| भावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा क्षायिकसम्यक्त्वमुत्पादयतो मिध्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः वेदकसम्यक्त्वस्य - क्षायोपशमिकस्य सम्यक्त्वस्य क्षपणकाले 'चरमोदीरणायां' - समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा भवति । सा च चतुर्गतिकानामन्यतरस्य वेदितव्या ॥ ७१ ॥
(उ० ) — निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानधनां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्तभावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा वेदकसम्यक्त्वस्य- क्षायोपशमिकसम्यक्त्वस्य क्षायिक सम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वक्षपणानन्तरं स्वकक्षपणकाले उदीरणा चरमे-चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा
Dha