Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः |
॥९२॥
ka
ि
ज्ञातव्य इत्यर्थः । तथेतरत्साधारणनाम हुण्डेन समं वक्तव्यं, यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागुक्ता तथा साधारणनाम्नोऽपि वाच्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्तस्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तिचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथाऽऽतपोद्योतनाम्नोस्तद्योग्यः पृथिवीकायिकः शरीरपर्याया पर्याप्तः प्रथमे समये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥
जा नाउज्जियकरणं तित्थगरस्स नवगस्स जोगंते । कक्खडगुरूणमंते नियत्तमाणस्स केवलिणो ॥७८॥ (०) - ' जा णाउज्जियकरणं तित्थकरस्स'त्ति-जाव आउज्जीकरणं ण आढवेति ताव तित्थकरणामाए जहपणाणुभागुदीरणा, सव्वकालं आउज्जीकरणे बहुगं अणुभागं उदीरेति । 'णवगस्स जोगंते' त्ति - कक्खडगुरुगहीणं कुवण्णणवगं अथिरं असुभं एतेसिं णवण्हं कम्माणं सजोगिकेवलिचरिमसमए जहण्णाणुभागुदीरणा । 'कक्खडगुरुण मंथे णियत्तमाणस्स केवलिणो त्ति-कक्खडगुरुगाणं केवलिसमुग्धायाओ णियत्तमाणस्स मंथे वट्टमाणस्स समुग्धारण खविए जहणियाणुभागउदीरणा ||१८||
(मलय०)—‘ज' त्ति । आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग् भवति । तत्राङ् मर्यादायाम् आ मर्यादया केवलिदृष्टया योजनं व्यापारणं आयोजनम् । तच्चातिशुभयोगानामवसेयम् । आयोजनमायोजिका तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थ : - आवर्जितो नाम अभिमुखीकृतः । तथा च लोके वक्तारः- आवर्जितोऽयं मया, संमुखीकृत इत्यर्थः । ततथ तथा भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे 'जा नाउस्सय करणं'
अनुभागोदीरणा
॥९२॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212