Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 189
________________ Ma(आउस्स)उक्कोसाणुक्कोसजहण्णाजहण्णविगप्पा सादिया अधुवा एव अधुवउदीरणतातो ॥८॥ _(मलय०) तदेवमुक्ताऽनुभागोदीरणा । सम्प्रति प्रदेशोदीरणाभिधानावसरः। तत्र च द्वावर्थाधिकारौ-तद्यथा-साधनादिप्ररूपणा स्वामित्वप्ररूपणा च । साधनादिमरूपणापि च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां साधनादिप्ररू| पणां चिकीर्षुराह–'पञ्चण्ह'ति । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पञ्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशे-प्रदेशविषया उदी. रणा विधा-त्रिप्रकारा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणापर्यवसाने लभ्यते । सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-सादिरनादि,वाऽधुवा च । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य । ततो द्वयोरप्येषा साद्यधुवा । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाप्रमत्तगुणस्थानकात्मतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्य सादिः, तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह' त्ति-एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्याजघन्योत्कृष्टा द्विविधा द्विप्रकाराः। तद्यथा-सादयोऽधुवाश्च । तथाहि-एतासां सप्तानामतिसंक्लिष्टे | मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा । सा च सादिरधुवा च । संक्लेशपरिणामाच च्युतस्य मिथ्यादृष्टेरप्यजघन्या । ततः सापि सादिरध्रुवा च । उत्कृष्टा च पागेव भाविता । आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥८॥ CG

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212