SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः | ॥९२॥ ka ि ज्ञातव्य इत्यर्थः । तथेतरत्साधारणनाम हुण्डेन समं वक्तव्यं, यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागुक्ता तथा साधारणनाम्नोऽपि वाच्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्तस्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तिचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथाऽऽतपोद्योतनाम्नोस्तद्योग्यः पृथिवीकायिकः शरीरपर्याया पर्याप्तः प्रथमे समये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥ जा नाउज्जियकरणं तित्थगरस्स नवगस्स जोगंते । कक्खडगुरूणमंते नियत्तमाणस्स केवलिणो ॥७८॥ (०) - ' जा णाउज्जियकरणं तित्थकरस्स'त्ति-जाव आउज्जीकरणं ण आढवेति ताव तित्थकरणामाए जहपणाणुभागुदीरणा, सव्वकालं आउज्जीकरणे बहुगं अणुभागं उदीरेति । 'णवगस्स जोगंते' त्ति - कक्खडगुरुगहीणं कुवण्णणवगं अथिरं असुभं एतेसिं णवण्हं कम्माणं सजोगिकेवलिचरिमसमए जहण्णाणुभागुदीरणा । 'कक्खडगुरुण मंथे णियत्तमाणस्स केवलिणो त्ति-कक्खडगुरुगाणं केवलिसमुग्धायाओ णियत्तमाणस्स मंथे वट्टमाणस्स समुग्धारण खविए जहणियाणुभागउदीरणा ||१८|| (मलय०)—‘ज' त्ति । आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग् भवति । तत्राङ् मर्यादायाम् आ मर्यादया केवलिदृष्टया योजनं व्यापारणं आयोजनम् । तच्चातिशुभयोगानामवसेयम् । आयोजनमायोजिका तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थ : - आवर्जितो नाम अभिमुखीकृतः । तथा च लोके वक्तारः- आवर्जितोऽयं मया, संमुखीकृत इत्यर्थः । ततथ तथा भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे 'जा नाउस्सय करणं' अनुभागोदीरणा ॥९२॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy