________________
इति पठन्ति । तत्राय शब्दसंस्कारः-आवश्यककरणमिति । अन्वर्थश्चायं-आवश्यकेनावश्यंभावेन करणमावश्यककरणम् । तथाहिसमुद्घात केचित्कुर्वन्ति, केचिच्च न कुर्वन्ति, इदं त्वावश्यककरणं, सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमयात्मकमन्तर्मुहूर्तममाणम् । यत उक्तं प्रज्ञापनायां-'कइसमपणं भन्ते आउंजियाकरणे पन्नत्ते ? गोयमा ! असंखि जसमईए अन्तोमुहुत्तिए पन्नत्ते' इति । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुभागोदीरणा । आयोजिकाकरणे हि प्रभूतानुभागोदीरणा प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य प्रकृतिनवकस्य सयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, तस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातान्निवर्तमानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८॥
(उ०)-आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग्भवति, तत्र आ-मर्यादया केवलिदृष्टया योजनमतिशुभयोगानामायोजिका | तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमित्याहुः, तत्रायमर्थः-आवर्जितो नामाभिमुखीकृतः, तथा च वक्तारो भवन्तिआवर्जितोऽयं जनो मया सम्मुखीकृत इत्यर्थः । ततश्च तथाभव्यत्वेनावर्जितस्य सिद्धिगमनं प्रत्यभिमुखीकृतस्य करगमुदीरणावलिकायां कर्मप्रक्षेपणरूपं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे त्वावश्यककरणमिति पठन्ति । तत्रायमर्थः-आवश्यकेनावश्यभावेन करणमावश्यककरणम् । तथाहि-समुद्घात केचित्कुर्वन्ति केचिच्च न कुर्वन्ति, इदं तु सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमयात्मकमन्तर्मुहर्तप्रमाणम् । यदाह भगवानार्यश्यामः-“कइ समइए णं भन्ते आउंजियाकरणे पन्नत्ते? गोयमा! असं. खेजसमइए अन्तोमुहुत्तिए पन्नत्ते" । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुभागोदीरणा, आयोजिका