Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः 116011
Kaarak
(मलय ० ) - कृता साधनादिप्ररूपणा । सम्पति स्वामित्वमभिधातव्यम् । तच्च द्विधा - उत्कृष्टोदीरणाविषयं, अघन्योदीरणाविषयं च । तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह - 'दाणाई'ति । सूक्ष्मस्य - सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तो कदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पञ्चविधान्तरायाचक्षुदर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्ति वरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुभागोदीरणा ||२८||
( उ० ) - कृता साद्यनादिप्ररूपणा, अथ स्वामित्वं वक्तव्यं तच्च द्विधा - उत्कृष्टोदीरणाविषयं जघन्योदीरणाविषयं च । तत्राद्यस्वामित्वमाह-सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्त्तमानस्यान्त| रायपञ्चकाचक्षुर्दर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । चक्षुर्दर्शनावरणस्य पुनस्त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये उत्कृष्टानुभागोदीरणा, दानान्तरायादिकृतलब्ध्यपकर्षस्य चक्षुर्दर्शनावरणकृतलब्धिप्रतिबन्धस्य च परमकाष्ठायाः प्रतिनियतसमय एव संभवात्तदुपादानम् ॥५८॥
निद्दा पंचगस्स य मज्झिमपरिणामसंकिलिट्ठस्स । अपुमादिअसायाणं निरए जेाठिइसमते ॥५९॥ (०) — णिद्दाइपणगाणं मज्झिमपरिणामस्स - तप्पाउगसंकिलिट्ठस्स सम्बाहि पज्जत्तीहिं पञ्जत्तस्स उक्कोसिया अणुभागउदीरणा भवति । अचंतविसुद्धसंकिलिडंमि उदयो णत्थित्ति काउं मज्झिमपरिणामगहणं । 'अपुमाइ असाताणं' ति - णपुंसकवेय अरइसोयभयदुर्गच्छाणं असांतस्स य नेरहओ उक्कोसद्वितीओ सव्वाहिं पज्जत्तीहिं पत्तो सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो । 'समत्तोत्ति-पज्जत्तगो ॥५९॥
अनुभागोदीरणा
॥८०॥

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212