SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (मलय ० ) – 'पल्ल' त्ति - पल्योपमासंख्येयभागेन न्यूनं यदेकं सागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादुकर्मप्रकृतिः द्धृत्य संज्ञिपश्चेन्द्रियमध्ये समायातः । तस्य यतः समयादारभ्यान्तर्मुहूर्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणाऽपगमिष्यति तस्मिन् समये सम्यग्मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा । एकेन्द्रियसत्कजघन्यस्थितिसत्कर्मणश्च सकाशादधो वर्तमानं सम्यग्मिथ्यात्वमुदीरणायोग्यं न भवति । तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वोदयसंभवतस्तदुद्वलनसंभवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ यस्य वैक्रियपदकस्य - वैक्रियशरीरवैक्रिय संघातवैक्रियबन्धनचतुष्टयरूपस्य तत् द्विसप्तभागं वैक्रियं, ततो विशेषणसमासः, प्राकृतत्वात्स्त्रीत्व निर्देशः, इहापि च 'पल्लासंखियभागेण' इत्यनुवर्तते, ततश्च तस्य द्विसप्तभागवैक्रियषट्कस्य पल्योपमासंख्येयभागहीनस्य पवनस्य- बादरवायुकायिकस्य तस्य - वैक्रियस्य पर्यन्तसमये जघन्या स्थित्युदीरणा । एतदुक्तं भवति - बादरवायुकायिकः पल्योपमासंख्येय भागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषट्कजघन्य स्थितिसत्कर्मा बहुशो वैक्रियमारभ्य चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यां स्थित्युदीरणां करोति । अनन्तरसमये च वैक्रियषट्कमेकेन्द्रिय सत्कजघन्य सत्क र्मापेक्षया स्तोकतरमिति कृत्वा उदीरणायोग्यं न भवति किन्तूइलनायोग्यम् ॥४०॥ ( उ० ) – पल्यासंख्येयभागोनोदधेः पल्योपमासंख्येयभागेन न्यूनं यदेकसागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मण एकेन्द्रियागतस्यै केन्द्रियभवादुद्धृत्य संज्ञिपञ्चेन्द्रियमध्ये समायातस्य यतः समयादारभ्यान्तर्मुहूर्त्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणा निवर्तिष्यते तस्मिन् समये सम्यग्मिथ्यात्वं प्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा, एकेन्द्रियसम्बन्धिजघन्य स्थितिसत्क|र्मणः सकाशादधो वर्तमानं च सम्यग्मिथ्यात्वं नोदीरणायोग्यं तदधस्तनस्थितिके तस्मिन् सत्यवश्यं मिथ्यात्वोदयसंभवेन तदुलन ॥६१॥ VASKasa 52 स्थित्युदीरणा ॥६१॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy