________________
स्यैव सम्भवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ स्थितिरूपौ यस्य वैक्रियस्य-वैक्रियशरीरवैक्रियसंघातवैक्रियबन्धनचतुष्टयरूपस्य वैक्रियषद्कस्य तद्विसप्तभागवैक्रियं, तदपि प्राक्तनानुवृत्त्या पल्योपमासंख्येयभागोनं गृह्यते, तस्य स्त्रीत्वनिर्देशः प्राकृतत्वात् , पवनस्य-बादरवायुकायिकस्य वैक्रियस्यान्ते-पर्यन्तसमये जघन्या स्थित्युदीरणा । इयमत्र भावना-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषद्कजघन्यस्थितिसत्कर्मा बहुशो वैक्रियं निर्माय चरमे वैक्रियारम्भे चरमसमये
वर्तमानो जघन्यस्थित्युदीरणां करोति । तदनन्तरसमये च वैक्रियषद्कमेकेन्द्रियसम्बन्धिजघन्यसत्कर्मापेक्षया स्तोकतरमिति कृत्वोदीKSI रणायोग्यं न भवति, किं तूद्वलनायोग्यम् ॥४०॥
चउरुवसमेत्तु पेज पच्छा मिच्छं खवेत्तु तेत्तीसा । उक्कोससंजमद्धा अंते सुतणूउवंगाणं ॥४१॥ । (चू०) 'पेज्ज'-मोहं, तं चत्तारि वारे उवसामइनु 'पच्छा मिच्छत्तं खवेत्तु'त्ति-चत्तारि वारे उवसामित्तु पच्छा मिच्छत्तादिदंसणमोहं खवेत्तु तेत्तीसा' इति-ततो उक्कोसठितिगेसु देवेसु तेतीसं सागरोवमादी जीविय ततो चुतो मणूसो जातो अठवासितोसंजमं पडिवण्णो 'उक्कोससंजमद्धा अंतेत्ति-पुवकोडिं देसूणं संजमं अणुपालेत्तु तस्स अंते आहारगसरीरी जातोतस्स अंते सुतणूउवंगाणं'ति-सुतणुत्ति आहारसरीरं, ताए चेव अंगोवंगं, एएसिं सपरिवाराणं जहणिया ठितिउदीरणा। किं कारणं?संतकम्मं पत्तियं कालं हेहातो खयं जातित्ति किच्चा ॥४१॥ | (मलय०) 'चउत्ति।संसारपरिभ्रमणेन चतुरो वारान् प्रेम-मोहनीयमुपशमय्य ततो मिथ्यात्वं, उपलक्षणमेतत् , सम्यक्त्वं सम्यग्मिथ्यात्वं च क्षपितं, क्षपयित्वा च त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः । ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः । ततो