________________
कर्मप्रकृतिः
॥६२॥
aa
वर्षाष्टकानन्तरं संयमं प्रतिपन्नोऽप्रमत्तभावे चाहारकसप्तकं बद्धवान् । ततो देशोनां पूर्वकोटिं यावत्संयमं परिपालितवान् । ततो देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा - 'सुतणु' त्ति- आहारकशरीरं, 'उवंग' त्ति आहारकाङ्गोपाङ्ग, बहुवचनादाहार कबन्धनचतुष्टयाहारकसङ्घातपरिग्रहः, तेषां जघन्यां स्थित्युदीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामकर्मप्रकृतीनां घातादिभिः प्रभूतं स्थितिसत्कर्म घातयति । देवभवे चापवर्तनाकरणेनापवर्तयति । तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म संक्रमयतीति चतुष्कृत्वो मोहादिग्रहणम् । आहारकसप्तकस्थितिसत्कर्म च देशोनपूर्वकोटिप्रमाणेन कालेन प्रभूतं क्षयमुपयाति ततो देशोनपूर्व कोट्युपादानम् ||४१|| ( उ० ) - बहुशो भवभ्रमणेन चतुरो वारान् 'पेजं' ति- मोहनीयमुपशमय्य ततः पश्चान्मिथ्यात्वमुपलक्षणात्सम्यक्त्वं सम्यग्मिथ्यात्वं च क्षपयित्वा 'तेत्तीस 'त्ति सर्वार्थसिद्धे त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः, ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः, ततो वर्षाष्टकानन्तरमुत्कृष्टाद्धां - देशोनां पूर्वकोटिं यावत्संयममनुपालितवान् ततोऽन्ते देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा सुतनोराहारकशरीरस्य, तथोपाङ्गानामाहारकोपाङ्गानां, बहुवचनादाहारक बन्धनचतुष्टयाहारक संघातग्रहः, एतस्याहार कसप्तकस्य जघन्यां स्थित्यु · दीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामप्रकृतीनां स्थितिघातादिभिः प्रभूतं स्थितिसत्कर्म घातयति, देवभवे चापवर्तनाकरणेनापवर्तयति, तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म तत्र संक्रामतीति चतुष्कृत्वो मोहोपशमस्योत्कृष्टस्थितिकदेव भवस्य च ग्रहणं, देशोनपूर्वकोटिप्रमाणेन चारित्रकालेन चाहार कसप्तकस्थितिसत्कर्म प्रभूतं क्षयमुपयातीति देशोन पूर्व कोट्युपादानम् ॥४१॥ छउमत्थखीणरागे चउदस समयाहिगालिगठिईए । सेसाणुदीरणंते भिन्नमुहुत्तो ठिईकालो ॥४२॥
(०) - 'छउ मत्थखीणरागे' त्ति- खीणकसायत्ति 'चउदस समयाहियावलियठितिए' - णाणावरणदंसणावरण
25
| स्थित्युदी
रणा
॥६२॥