Book Title: Jivandhar Champu
Author(s): Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
जीवन्धरचम्पूकाव्ये तदानीं रिपुशरनिकृत्तचापलताश्चापलकरवालैर्भग्नकरवालाः पाणिभिश्छिन्नपाणयश्चरणभिन्नचरणा दुर्वचनैः क्रोधपरीता योधाः परस्परमाजनुः । एवं शब्दपूरितगगनजयानके भयानके समीके विजृम्भिते मथननिर्मुक्तनाराचधारापातेन दीनां निजसेवामालोक्य करकलितकार्मुकलताविस्फारघोषेण द्विविधानपि महीभृतः कम्पय-कोपारुणास्यः पद्मास्यो वेगविततचक्रस्पन्दनेन स्यन्दनेन विपक्षवाहिनीं दिधक्षन्निवाभिदुद्राव। पद्मास्यप्रहिताः प्रभूतविशिखाः सेना-तराले रिपौ
र्योधांस्तत्र सहस्रशो निपतितान्भूमौ व्यधुः पक्तिशः । घोटान् पाटितविग्रहान् गजघटाः प्राणालिभिर्दुर्घटाः
कूजच्चापधरान् बहूञ्छरधिकांश्चक्र य॑सून संयुगे ।। ६३ ।। तस्यामितैः शरगणैर्गगनं रिपूणां
सैन्यं च पूरितमभूद्धनसंप्रहारे । भूमिश्च भग्नभटवाजिगजैः परीता
हाहारवैररिबलस्य दिशावकाशः ।। ६४ ॥ द्विषतां तत्पतीनां च नवार्निम्नगाः सृजन् । पद्मास्यः प्रीणयामास निजसैन्यनदीपतिम् ॥ ६५ ॥
wwwwwwwwwwwwwwwwwwwww
तदानीमिति तदानीं तस्यां वेलायाम, रिपुशरैः शत्रुवाणैनिकृत्ता छिन्ना चापलता धनुर्वल्ली येषां ते, योधा भटाः, चापलकरवालः चञ्चलकृपाणः, भग्नकरवालाः खण्डितखड्गाः, पाणिभिहस्तैः, छिन्नपाणयः कृत्तकराः, चरणैः पादैः, भिन्नचरणाः शकलितपादाः, दुर्वचनैर्दुष्टवचोभिः, क्रोधपरीताः कोपव्याप्ताः, सन्तः, परस्परमन्योऽन्यम्, आजघ्नुः प्रजह । एवमनेन प्रकारेण, शब्दैः पूरितं गगनं येन स शब्दपूरितगगनः, तथाभूतो जयानको विजयदुन्दुभिर्यस्मिस्तस्मिन् , भयानके भयङ्करे, समीके युद्ध, विजृम्भिते सति वृद्धिंगते सनि, मथनेन काष्टाङ्गारश्यालेन निर्मुक्तास्यक्ता या नाराचधारा बाणसन्ततयस्तासां पातेन पतनेन, दीनां दुःखीभूताम्, निजसेनां स्वकीयपृतनाम्, आलोक्य दृष्ट्वा, करकलिता हस्तकृता या कार्मुकलता धनुव्रततिस्तस्या विस्फारघोषेण प्रचुरशब्देन, द्विविधानपि द्विप्रकारानपि महीभृतो राज्ञः पर्वतांश्च, कम्पयन् वेपयन्, कोपारुणास्यः क्रोधलोहितवदनः, पद्मास्यो जीवकसुहृद्विशेषः, वेगेन जवेन विततं विस्तृतं चक्रस्पन्दनं रथाङ्गसञ्चरणं यस्य तेन, स्यन्दनेन रथेन, विपक्षवाहिनीं शत्रुसेनाम्, दिधक्षन्निव दग्युमिच्छन्निव, अभिदुद्राव सम्मुखमाजगाम ।
पद्मास्यप्रहिता इति-पद्मास्येन प्रहिताः प्रेरिता इति पद्मास्यप्रहिताः, प्रभूतविशिखाः प्रचुरबाणाः, तत्र तस्मिन् , सेनान्तराले पृतनामध्ये, सहस्रशः सहस्रसंख्याकान् , रिपोररातेः, योधान् योद्धृन् , भूमौ रणपृथिव्याम्, पङ्क्तिशः श्रेणिक्रमेण, विपतितान् स्खलितान् , व्यधुश्चक्रुः, घोटानश्वान् , पाटितो विदारितो विग्रहो देहो येषां तान् , गजघटाः करिपङ्क्तिः प्राणालिभिः प्राणसमूहैः, दुर्घटा वियुक्ताः, कूजच्चापधरान् शब्दायमानधनुर्धारकान् , शरधिकान्वाणधारकान्, बहून्प्रभूतान् , जवानिति शेषः, संयुगे समरे, विगता निष्कान्ता असवः प्राणा येषां तथाभूतान् मृतानीति यावत् , चक्रुर्विदधुः ॥६३॥
तस्यामितैरिति-धनसंप्रहारे विकटयुद्धे, तस्य पद्मास्यस्य, अमितैरपरिमितैः, शरगणैर्वाणसमू हैः, गगनं नमः, रिपूणां शत्रूणाम्, सैन्यञ्च पृतना च, पूरितं सम्भृतम्, अभूदासीत् । भटाश्च वाजिनश्च गजाश्चेति भटवाजिगजा योद्धहयहस्तिनः, भग्नाश्च ते खण्डिताश्च ते भटवाजिगजाश्चेति भग्नभटवाजिगजास्तैः, भूमिश्च समरभूश्व, परीता व्याप्ता, अखिलस्य शत्रुमण्डलस्य, हाहारवैर्हाहाशब्दैः, दिशावकाशः काष्टान्तरालम्, परीतो व्याप्तः, अभूत् ॥६॥
द्विषतामिति-द्विषतामरातीनाम्, तत्पतीनाञ्च तत्स्वामिनाञ्च, नवार्नूतनरुधिरैः निम्नगाः नदीः, सृजन रचयन् , पद्मास्यस्तन्नामा जीवकसुहृद्, निजसैन्यमेव स्वकीयपृतनैव नदीपतिः सागरस्तम् प्रीणयामास संप्रीतञ्चकार ॥६५॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406