Book Title: Jivandhar Champu
Author(s): Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 263
________________ २०६ जोवन्धरचम्पूकाव्ये हृप्यत्सिन्धुरदीर्णकुम्भयुगल प्रोन्मुक्तमुक्ताफलै बणावासिजयश्रियः प्रविगलन्मोदाश्रुबिन्दुप्रभैः । लेखानां कुसुमोत्करं सुरभिलं द्राग्वर्षतां हर्षतां प्रत्यच चतुरश्चकार समरे सोऽयं कुरूणां पतिः ॥ १०६॥ एवं भिन्दन्बलं वीरः कृतन्नमभियाय सः । वीरश्रियानुधावन्त्या समालिङ्गितविग्रहः ॥ ११० ॥ एवं जयश्रीताण्डवरङ्गस्थलायमानभुजयुगलं कुरुवीरमवलोक्य काष्ठाङ्गार एवमुवाच । क्व वैश्यपुत्रस्त्वमतीव भीरुर्वयं क चापागमपारनिष्ठाः । अथापि ते संयति संप्रवृत्तावनात्मवेदित्वमवेहि हेतुम् ॥ १११ ॥ तुलादण्डधृतौ वैश्य तव यत्करकौशलम् । विस्तारयसि तच्चापे धिक्चापलमहो तब ॥ ११२ ॥ साहसेन रणे तिष्ठन्मुमूर्षुरसि मुग्धधीः । त्वत्प्राणवायोः कः पाता मत्कृपाणाहिना विना ॥ ११३ ॥ इति काष्ठाङ्गारदर्पविलसितदुर्वचनमाकर्ण्य कुरुवीरोऽप्येवं जगाद् । सूर्यमण्डलम्, गगनश्रेणीमधुच्छत्रताम् नभः श्रेणीक्षौद्रच्छत्रकताम्, बभार दधार, इत्यहो आश्चर्यम् ॥ शार्दूलविक्रीडितच्छन्दः ॥ १०८ ॥ हृप्यत्सिन्धुरेति - समरे युद्धे, चतुरो विदग्धः सोऽयं पूर्वोक्तः, कुरूणां पतिर्जीवन्धरः, बाणेषु शरेष्वावसत्येवं शीला वाणावासिनी सा चासौ जयश्रीश्च विजयलक्ष्मीश्चेति बाणावासिजयश्रियः, प्रविगलन्तः पतन्तो ये मोदालुबिन्दवो हर्षाशीकरास्तेषां प्रभेव प्रभा येषां तैः दृप्यन्तो माद्यन्तो ये सिन्धुरा हस्तिनस्तेषां दीर्णा खण्डिता या कुम्भयुगली गण्डयुगं तस्याः प्रोन्मुक्तानि पतितानि यानि मुक्ताफलानि मौक्तिकानि तैः, द्वाग् झटिति, सुरभिलं, सुगन्धियुक्तम्, कुसुमोत्करं पुष्पप्रचयम्, वर्षतां मुञ्चताम्, हर्षतां मोदमानानाम्, लेखानां देवानाम् प्रत्यच प्रतिपूजाम् चकार विदधे । देवैः पुष्पाणि वर्षितानि जीवन्धरेण च गजगण्डेभ्यो मुक्ताफलानीति भावः ॥१०६ ॥ एवं भिन्दन्बलमिति — एवमनेन प्रकारेण, बलं सैन्यम्, भिन्दन् विदारयन्, अनुधावन्त्या, समनुगच्छन्त्या, वीरश्रिया वीरलक्ष्म्या, समालिङ्गितः समाश्लिष्टो विग्रहो यस्य तथाभूतः, स पूर्वोक्तः, वीरो जीवन्धरः, कृतघ्नं काष्टाङ्गारम्, अभियाय तदभिमुखं जगाम् ॥ ११० ॥ एवं जयश्रीति - एवमनेन प्रकारेण, जयश्रिया विजयलक्ष्म्यास्ताण्डवस्य नर्तनस्य रङ्गस्थलायमानं रङ्गभूमिवदाचरत् भुजयुगलं बाहुयुगं यस्य तथाभूतम्, कुरुवीरं जीवन्धरम्, अवलोक्य दृष्ट्वा, काष्ठाङ्गारः कृतघ्नः, एवमनेन प्रकारेण उवाच जगाद । क्व वैश्य पुत्र इति - अतीव नितराम, भीरुः कातरः, वैश्यपुत्रो वणिक्सुतः, त्वम्, क्व, चापागमस्य धनुः शास्त्रस्य पारेऽन्ते निष्ठा येषां तथाभूताः, वयं क्षत्रियपुत्राः, क्व च कुत्र च द्वयोर्महदन्तरमस्तीति भावः, अथापि युद्धयोग्यताया अभावेऽपि ते तव, संयति युद्धे, संप्रवृत्तौ संप्रवर्तने, अनात्मवेदित्वमनात्मज्ञताम्, हेतुं कारणम्, अवेहि जानीहि । स्वाज्ञानाभाव एव त्वं युद्धे प्रवर्तसे इति भावः ॥ १११ ॥ तुलादण्डधृताविति - हे वैश्य हे वणिक्, तुलादण्डधृतौ तुलायष्टिधारणे, तव ते, यत्करकौशलं यद्धस्तचातुर्यम्, अस्ति, तत्, चापे धनुपि, विस्तारयसि वितानयसि, अहो आश्चर्यम्, तव ते चापलं क्षुद्रत्वम्, धिक् ॥ ११२ ॥ साहसेनेति-साहसेन धैर्येण, रणे समरे, तिष्ठन् विद्यमानः, मुग्धधर्मन्दमतिः त्वम्, मुमूषु घुमंतुमिच्छुरसि । मत्कृपाण एव मत्करवाल एवाहिः पन्नगस्तेन, विनान्तरेण, त्वत्प्राणवायोरत्वज्जीवितपवनस्य, पाता पानकर्ता, कः, न कोऽपीति यावत् । रूपकम् ॥ ११३ ॥ इतीति — इत्येवं प्रकारेण, काष्ठाङ्गारस्य कृतघ्नस्य दर्पदुर्विलसितं गर्वचेष्टितं यद् दुर्वचनं दुर्वाक्यं तत् आकर्ण्य श्रुत्वा कुरुवीरोऽपि जीवन्धरोऽपि, एवमित्थम्, जगाद समुवाच ।

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406