Book Title: Jivandhar Champu
Author(s): Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
एकादशो लम्भः
२३१ सरसिजविगलदिव्यध्वनिश्रवणकुतुकेन कुण्डलीभूयोपतस्थुपा मेरुणेव कनकमयसालेन विलसिता, सकलचित्तहारिणा पुष्पितकल्पकवनेन परिशोभिता, निखिलजगदानन्दकन्दलसंदायिन्या चतुर्गोपुरचारुतमवज्रवेदिकया संघटिता, जिनपतिदर्शनकुतूहलेन प्रादुर्भूतान्नवपदार्थानिव नवनव स्तूपानर्चासनाथान्धारयन्ती, भगवविक्षया समागतेन मूर्तेन वायुमार्गेणेव स्फाटिकप्राकारेण परिवृता, सन्ततपरिस्फुरन्निशाकान्तकान्तविनिर्मितैर्भव्यसंदोहाध्यासितैदशकोप्टैः प्रतिष्ठिता विरराज।
तत्र प्रविश्य स च गन्धकुटीसमाख्ये स्थाने मणिस्फुरितसिंहहतासनाये। पूर्वाचले रविमिव प्रविराजमानं वीरं ददर्श कुतुकेन जिनाधिराजम् ॥४४॥ प्रदक्षिणीकृत्य धराधिराजो भक्त्या जगत्पूज्यमथैप वीरम् । इयाज पूजाविधिना विधिज्ञस्तुष्टाव चैवं परितुष्टचित्तः ॥४५॥ स्वामिन्नम्वुदमागेचुम्बिविटपै रुद्धाम्बराशान्तरो
गायन्भृङ्गरवैस्तवामलगुणान्नृत्यंश्चलैः पल्लवैः । रक्तस्तावकदर्शनेन विविधैः पुष्पप्रवालोत्करै
__ मूर्तो वा मधुरेव वीर भवतो राजत्यशोकद्रमः ॥४६॥ व्यामुक्तानि तानि यानि मुक्ताफलानि तेषां रुचिनिचयेन कान्तिकलापेन रुचिरा मनोहरास्ताभिः, वैजयन्तीभिः पताकाभिः विलसिता शोभिता भगवन्मुखसरसिजात् जिनेन्द्रवदनारविन्दात् विगलनिःसरन् यो दिव्यध्वनिनिरक्षरवाणी तस्य श्रवणं समाकर्णनं तस्मिन् कौतुकं कौतूहलं तेन, कुण्डलीभूय मण्डलाकारीभूय, उपतस्थुषा समुपस्थितवता, मेरुणेव रत्नसानुनेव, कनकमयसालेन काञ्चननिर्मितवप्रेण, विलसिता शोभिता, सकलचित्तहारिणा निखिलमनोवशीकरणनदाणेन, पुष्पितं कुसुमितं अल्कल्पकवनं कल्पानोकहकाननं तेन, परिशोभिता समलंकृता, निखिलजगतां कृत्स्नलोकानामानन्दकन्दलस्य प्रमोदसमूहस्य संदायिन्या प्रदायिकया, चतुर्गोपुरैश्चतुःप्रधानद्वारैश्चारुतमा मनोहरतमा या वज्रवेदिका पविमयवितर्दिका तया, संघटिता कलिता, जिनपतिदर्शनकुतूहलेन जिनेन्द्रावलोकनकौतुकेन, प्रादुर्भूतान् प्रकटितान्, नवपदार्थानिव जीवाजीवात्रवबन्धसंवरनिर्जरापुण्यपापाभिधानपदार्थानिव, अर्चासनाथान् मूर्तिसहितान् , नव नव प्रतिदिशं नव नव संख्याकान् , स्तूपान् मणिमयमृच्छेलान् , धारयन्ती दधती, भगवतो जिनेन्द्रस्य दिदृक्षा दर्शनेच्छा तया, समागतेन संप्राप्तेन, मूर्तेन मूर्तियुक्तेन, वायुमार्गेणेव पवनमार्गेणेव गगनेति यावत् , स्फाटिकप्राकारेण विशदोपलवप्रेण, परिवृता परीता, सन्ततं निरन्तरं परिस्फुरन्तो विकसन्तो ये निशाकान्तकान्ता चन्द्रकान्तमणयस्तैर्निर्मित रचितः, भव्यसंदोहेन भव्यजीवौघेनाध्यासिता अधिष्ठितास्तैः, द्वादशकोष्टादशसभाभिः, प्रतिष्टिता सहिता सती विरराज विशुशुभे ।
तत्र प्रविश्यति-तत्र धर्मसभायाम्, प्रविश्य प्रवेशं कृत्वा, स च जीवन्धरश्च, गन्धकुटोसमाख्ये गन्धकुटीनामके, स्थाने धामनि मणिस्फुरितं रत्नविभ्राजितं यत् सिंहवृतासनं हरिविष्टरं तस्याग्रे पृष्ठे पूर्वाचले उदयाचले रविमिव सूर्यमिव, प्रविराजमानं शोभमानम् , जिनाधिराजं जिनेन्द्रदेवम्, कुतुकेन कुतूहलेन ददर्श विलोकयामास ।। ४४ ॥
प्रदक्षिणीकृत्येति-अथानन्तरम्, धराधिराजो नृपः एष जीवन्धरः, जगत्पूज्यं भुवनाभिवन्दनीयम्, वीरं वर्धमानम् , प्रदक्षिणीकृत्य परिक्रम्य, पूजाविधिना सपर्याविधिना, इयाज पूजयामास, विधि जानातीति विविज्ञः, परितुष्टचित्तः संतुष्टहृदयश्च सन् , एवं वक्ष्यमाणप्रकारेण, तुष्टाव स्तौति स्म ॥४५॥ ___ स्वामिन्नम्बुदेति-हे स्वामिन् हे नाथ, हे वीर हे वर्धमानजिनेन्द्र, अम्बुदमार्गो गगनं तस्य चुम्विनः स्पर्शिनो ये विटपाः शाखास्तैः, रुद्धाम्बराशान्तरो रुद्वान्तरीक्षकाष्टामध्यः, भृङ्गरवः षट्पदशब्दैः, तव भवतः अमलगुणान् निर्मलगुणान् , गायन् उच्चारयन् , चलैश्चञ्चलैः, पल्लवैः किसलयः, नृत्यन् नृत्यं कुर्वन्, तावकदर्शनेन भवदीक्षणेन, विविधैरनेकप्रकारैः, पुष्पप्रवालोत्करैः कुसुमकिसलयसमू हैः, रक्तो लोहितवर्णो वृतानुरागश्च, भवतस्तव, अशोकदुमः कङ्केलिवृक्षः, मूर्तः सदेहः, मधुरेव वा वसन्त एव वा, राजति शोभते ॥४६॥

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406