Book Title: Jivandhar Champu
Author(s): Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
२२६
जीवन्धरचम्पूकाव्ये
अस्ति निखिलभुवनतलललामभूतं धातकीखण्डमण्डनायमानमतिविशालतया द्वितीयपृथिवीशङ्कासमागतेन पारावारेणेवातिगम्भीरेण परिघावलयेन परीतम् , विजयागिरिशिखरशङ्कावहैरभ्रङ्कपैरनवरततन्तन्यमानमहोत्सवदिक्षासमागतवैमानिकजनविमानैरिव सुधाधवलैः सौधैः परिष्कृतम, समुत्तुङ्गहर्म्यतलसंगतनितम्बिनीजनेतरङ्गितसंगीतमङ्गलरवाकृष्यमाणाधोमुखहरिणाङ्कहरिणम् , कामिनीजनमणिभूषणप्रभानिरस्ततमःसङ्घातव्युत्पत्तिशून्यपौरलोकतया विघटितचक्रवाकयुगलं व्यर्थीकृतप्रदीपम , भूमितिलकं नाम नगरम् ।
तत्राभवत्पवन वेग इति प्रतीतो राजा विराजितगुणो विलसत्प्रतापः ।
कीर्त्या पयोजलधिफेननिकाशकान्त्या व्यालिप्तविस्तृतसमस्तदिशावकाशः ॥ ३३ ॥ सती जयवती नाम रतिगर्वविमोचना। कान्ताभवन्नृपालस्य कर्णान्तायतलोचना ॥ ३४ ॥ यशोधर इतीरितो नरपतेः कुमारो भवान्बभूव जितमन्मथः स्ववपुषा घनश्रीपुषा । तवाष्ट सुदृशो बभुः कमलजेन निष्पादिता गिरिद्वयधुरा स्थिरा इव मनोहरा विद्युतः ॥ ३५ ॥
कदाचिद्भवान्यौवनपरिपुष्टाभिः कान्ताभिः करिणीभिरिव करीन्द्रः सहर्षमुपवनविहाराय
Homwwwwwwwrrrrrrrrrrrrrr.
अस्तीति-भूमितिलकमेतन्नाम नगरम्, अस्तीति सम्बन्धः। कथम्भूतं तदिति निगद्यते-निखिलभुवनतलस्य कृत्स्नभूलोकस्य ललामभूतमाभरणोपमानम्, धातकीपण्डस्य द्वितीयद्वीपस्य मण्डनायमानं भूषगाय अतिविशालतया विपुलतरत्वेन, द्वितीयपृथिवीशङ्कासमागतेन द्वितीयवसुधारेकाप्राप्लेन, पारावारेणेव सागरेणेव, अतिगम्भीरेण अत्यगाधेन, परिखावलयेन खेयमण्डलेन 'खेयं खातं तु परिखा' इत्यमरः, परीतं व्याप्तम्, विजयागिरिशिखरस्य रजताद्विशृङ्गस्य शङ्काव हैः संशयधारकैः, अभ्रषैर्घनाघनैः, अनवरतं निरन्तरं तन्तन्यमानानां विस्तार्यमाणानां महोत्सवानां महाक्षणानाम् दिदृक्षया द्रष्टुमिच्छया समागतानि संप्राप्तानि यानि वैमानिकजनविमानानि देवसमूहव्योमयानानि तैरिव, सुधाधवलश्चूर्णवलक्षः, सौधैः भवनैः परिष्कृतं शोभितम्, समुत्तुङ्गषु सून्नतेषु हयंतलेषु धनिकावासतलेषु, संगताः सम्मिलिता ये नितम्बिनीजनाः स्त्रीसमूहास्तैस्तरङ्गितं प्राप्ततरङ्गकं यत्संगीतमङ्गलं गायनकल्याणं तस्य रवेण शब्देन आकृष्यमाणोऽवनीयमानोऽधोमुखो हरिणाङ्कस्य चन्द्रस्य हरिणो मृगो यस्मिस्तत् , कामिनीजनस्य स्त्रीसमूहस्य मणिभूषणप्रभाभिः रत्नालंकारमरीचिभिर्निरस्तो दूरीकृतो यत्तमस्सङ्घातस्तिमिरसमूहस्तेन व्युत्पत्तिशून्या नियमहीना पौरलोका नागरिकनरा यस्मिस्तस्य भावस्तत्ता तया, अविघटितचक्रवाकयुगलं अविरहितकोकयुगम्, व्यर्थीकृता मोधीकृताः प्रदीपा यस्मिस्तत् , भूमितिलकम् एतन्नामधेयम्, एतन्नाम नगरं पुरम, अस्ति विद्यते ।
तत्राभवदिति-तत्र भूमितिलके नगरे, पवनवेग इति प्रतीतः प्रसिद्धः विराजिता गुणा यस्य सः, विलसन् प्रतापो यस्य सः, पयोधिजलफेननिकाशा सागरसलिलडिण्डीरसदृशी कान्तिर्दीप्तिर्यस्यास्तया कीर्त्या यशसा, व्यालिप्ता व्यादिग्धा विस्तृता वितताः समस्ता निखिला दिशावकाशाः काष्टान्तरालानि येन तथाभूतः, राजा शासकः, अभवत् आसीत् ॥३३॥
___ सतीति-सती पतिव्रता, रतिगर्वविमोचना कामकामिनीमदलोचना, कर्णान्तायते लोचने यस्याः सा श्रवणान्तायतनयना, जयवती तदभिधाना, कान्ता वल्लभा, नृपालस्य पवनवेगाभिधानराजस्य, अभवदासीत् ॥३॥
यशोधर इति-भवान् त्वम्, नरपते राज्ञः घनश्रीपुषा निविडलक्ष्मीपोषकेन, स्ववपुषा स्वकीयदेहेन, जितो मन्मथः कामो येन सः, यशोधर इतीरितः प्रसिद्धः, कुमारः पुत्रः, बभूव अजायत, तव भवतः, अष्ट अष्टसंख्याकाः, कमलजेन ब्रह्मणा, निष्पादिता रचिता, गिरिद्वयधुरास्त नयुगलरूपपर्वतद्वयभारेण, स्थिरा विद्यमानाः, मनोहरा रमणीयाः, विद्युत इव तडित इव, सुदृशः सुलोचनाः, बभुः शुशुभिरे पृथिवीच्छन्दः ॥३५॥
कदाचिदिति-कदाचिज्जातुचित् , भवान् त्वम्, यौवनपरिपुष्टाभिः, कान्ताभिः कामिनीभिः, १. जनातरङ्गित ब०।

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406