Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
ammernmenEResmammemomsonamaina
महावृत्तिसहितम् । मिति अनन्तरणं बाधते न उग्रवाहित क्षु दाभ्योवेति ढणं पुलिकायाः पौलिकेरः ।
कुवृष्यन्धकवृष्णेः ॥ १०३ ॥
कुरवः अन्धकाः वृष्णयश्च क्षत्रियोवंशाख्या. ऋषयश्वेह ग्राम्या मठपतया वशिष्टाद्या गृह्यन्ते । महर्षी णामहिंसादिवतोपपन्नाना अपस्यापत्यवत्संबंधो नास्ति । कुरु ऋषिअन्धकवृष्णिवाचिभ्यो मृद्धयः सामान्येनापत्ये अण् भव. ति । इजोऽपवादः । कुरुभ्यः नाकुलः । माहदेवः । दौर्योधनः । ऋषिभ्य: वाशिष्टः । वैश्वामित्रः । अन्धकेभ्यः स्वाफल्कः । राधसः । श्वैत्रकः । वृष्णिभ्यः अदारः प्रातिवाहः । वासुदेवः । आनिरुद्धः । इह मात्रयः इति परत्वाढढण यद्यपि भीमसेन करूः जातसेनः ऋषिः उग्रसेनो ऽन्धकः विष्वक्सेना वृष्णिः तथापि परत्वात्सेनान्तलक्षणो राय इन्च भवति मध्येपवादेयं पूर्व जित्यं बाधते ।
मातुरुत्संख्यासंभद्रादेः ॥ १०४ ॥ मातृशब्दस्य संख्यासंभद्रादेः उकारश्चान्तादेशो भवति श्रण चाधिकारात्। द्वयोर्मात्रोरपत्यं वैमातुरः । भरतः। शातमातुरः । सांमातुरः । भाद्रमातुरः । अभिधानवशात् जननीपर्याः यस्य मावशब्दस्य ग्रहणम् । संख्यासंभद्रादेरिति किम् । सौमाः। वैमात्रेयः। विमातृशब्दः शुभ्रादिषु पठ्यते।
कन्यायाः कनीन च ॥ १० ॥ कन्यायाः कनीन इत्ययमादेशो भवति । अण च तस्माढढणोऽपवादः । कानीनकः कर्णः । कानीनो हि नारकः ।
विकर्णसुङ्गछगलासभरद्वाजात्रिषु ॥ १०६ ॥ विकर्ण लुङ्ग छगल इत्येतेभ्यः श्रण भवति यथासंख्यं
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463