Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 448
________________ महावृत्तिसहितम् । फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यो वा ॥ १८ ॥ फाल्गुन्यादिभ्यो वा हम् भवति सास्मिन् पौर्णमासोति वर्तते । फाल्गुनी पौर्णमासी अस्मिन् मासे सवत्सरे वा फाल्गुनिकः फाल्गुनः । एवं श्रावणिकः । श्रावणः । कातिकिकः । कार्तिकः । चैत्रिकः । चैत्रः। सास्य देवता ॥ १८॥ सेत्यत्र लिंगवचने अप्रधानभूते । सेति वासमर्थात् अस्येति ताथै यथाविहितं त्यो भवति यतद्वानिर्दिष्ट देवता चेत्सभवति । महन् देवता अस्य श्रार्हतः । भगवती देवता अस्य भागवतः । बार्हस्पत्यः। सैतिवर्तमाने पुनः साग्रहणं संज्ञा विषयनिवृत्त्यर्थम् तेन सज्ञायां वायं विधिः । देखतेति किम् । कन्या देवदत्तस्य। कस्येः ॥ २० ॥ कशब्देन प्रजापतिरभिधीयते। सस्य इकारान्तादेशो भवत्यराच सास्य देववेत्यस्मिन्विषये । को देवता अस्य कायं हविः। मणि पूर्वेण सिद्धे इत्वार्थ वचनम् । भारम्भसामर्थ्यात् यस्पडयां चेति खं न भवति । शुक्राद्धः ॥ २१ ॥ शुक्रशब्दात् पो भवच्यणोऽपवादः । सास्य देवत्तेति वर्तते। शुको देवतास्य शुक्रियः । ___ अपोनप्त्रपानप्तृभ्याम् ॥२२॥ घाति वर्तते अपोनपतृ अपानप्त इत्येताम्यां घो अवत्यसोऽपवादः । सास्यदेवतेति वर्तते । अपोनपाद्देवता अस्य पोनस्त्रियः। अपान वाढवता अस्य अपान्तस्त्रियः। यप्र.

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463