Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 452
________________ 9. महावृत्तिसहितम् । बहादिभ्यो वुन् भवति । तस्य समुह इति वर्तते । औपगवानां समूह श्रीपगवलम् । कापटवकम् । श्रीक्षकम् । औष्ट्रकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । भानुष्यकम् । प्राजकम् । वृद्धाच्चेति वक्तव्यम् । बाईकम् । प्रकृत्या अके राजन्यमनुष्ययुधान पति पय चाना वत्या पत्यस्येनि यखं न भवति । इह पद्धग्रहणात सिद्ध राजन्य मनुष्ययाः पृथगग्रहणं ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणेन लौकिकं गोत्रमपत्यमात्रमुच्यते नतु पौत्राद्यपत्यं वृद्धमिति तथाहि लोके किङ्गोत्रो भवान् इति पृष्टः वात्स्यायनो स्मोत्याह राजन्यमनुष्ययोस्तु जातिशब्दत्वात् लौकिकात्रग्रहणम् । केदाराद्यञ्च ॥ ३५ ॥ केदारशब्दाद्यञ् भवति वुन च तस्य समूह इत्यस्मिन्विषये ढणापबाद । केदाराणां समूह कैदार्यम् । केदारकम् । गणिकायाः यच्च वक्तव्यः । गणिकाणां समूहः गाणिक्यम् । ठञ् कवचिनश्च ॥ ३२॥ ठन भवति कवचिनश्च केदाराच्च तस्य समूह इत्यस्मि विषये । कवधिनां समूहः कावधिकम् । कैदारिकम् । ग्रामंजनबन्धुसहायेभ्यस्तत् ॥ ३६ ॥ ग्रामादिभ्यस्तल् भवति तस्य ससूह इति वर्तते । ग्रामाणां समूह ग्रामता । जनता। बन्धुता। सहायता । गजाति वक्तव्यम् । गजता। चरणेभ्यो धर्मवत् ॥ ३७॥ चरणवाचिशब्देभ्यः समूह इत्येतस्मिन्नर्थे धर्म इव त्या अव. |

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463