Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् ।
पितृव्यमातुलमातामहपितामहाः ॥ ३१ ॥
पितृव्यादयः शब्दा निपात्यन्ते समर्थविभक्तिस्त्येोनुवन्धस्त्यार्थ इति सर्वमिदु निपात्यते पितृमातृभ्यां तासमधीभ्यां भ्रातरि वाच्ये व्यडलौ निपात्येते पितुर्भ्राता पितृव्यः । मातुश्रता मातुलः । डिवाहिखम् । ताभ्यामेव पितरि डामहः । मातुः 1: पिता मातामाहः । स एव डामहो मातरि वाच्याया टिच्च । मातुर्माता मातामही । पितुर्माता वितानही । टिस्वान्डीविधिः ।
६ल
तस्य समूहः ॥ ३२ ॥
तस्येति तामर्थात् समूह इत्येतस्मियर्थे यथाविहित त्यो भवति चित्तवदवृद्धं यस्य न चान्यत्र प्रतिपदं ग्रहणं तदिहोदाहरणम् । श्रचित्तवतष्टणु वक्ष्यते । वृद्धाद्वञ् । प्रतिपदमुचादिम्योपि वुजादिः । काकानां समूहः काकम् । शौकस् । वाकम् । इह पञ्चानां पूलाना समूहः पञ्चपूला इति प्राप्नोति समूहार्थे ऽण् तस्य रसोधनपश्य इत्युप् परिमाणादुपीति नियमात् । असति ङीबिधी टापा भवितव्यम् । नायं दोषः समाहारलक्षण एवात्र रस. हृदुत्पत्तिर्न भवत्यनभिधानात् ।
भिक्षादेः ॥ ३३ ॥
तस्य समूह इति वर्तते । भिक्षा इत्येवमादिभ्यः यथाविहितं त्यो भवति पुनर्विधानं छणो बाधनार्थम् । भिक्षाणां समूह भैक्षम् । भिक्षा गर्भिणी क्षेत्र करीष भङ्गार चर्मन् सहस्र युत्रति पद्धति अथर्वन् दक्षिणा इह पाठसामर्थ्यात् गर्भिणी युवतिशब्देन पुंवद्भावः ।
वृद्धोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्या
जाद्वुञ् ॥ ३४ ॥
Loading... Page Navigation 1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463