Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
MARATHI
जैनेन्द्रव्याकरणम् । वोदश्वितः ॥ १४ ॥ उदश्वित् शब्दात् ईपसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थ ठण भवति। उदाशिवति संस्कन मादन्यः औदश्वित्कः। नोंदश्वितः । श्रतोपि वाषचनात् ज्ञायते तेन संस्कृतात्तत्र सस्कृता. स्थार्थभेदः। अन्य या ईवन्ताहण् भान्तादण इत्युभयं सिद्ध स्यात् ।
क्षीराढण् ॥ १५ ॥ क्षीरशब्दात् ईसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थ ढण भवति । अणोऽपवादः । क्षीरे संस्कृता रेयी यवागूः ।
सास्मिन् पौर्णमासीति रवौ ॥ १६ ॥
सेति वासमर्थात अस्मिन् इति ईबथै यथाविहितं त्यो भवति यत्तद्वानिर्दिष्टं पौर्णमासी सा घेद्भवति । इतिकरणाद्यदि लोके विवक्षा समुदायेन चेत् संज्ञा गम्यते पूर्णचन्द्रमसा युक्तः कालः पौर्णमासी इदमेव ज्ञापकं अत्राण भवी तीति । माघी पौर्णमासी अस्मिन् मासे अर्द्धमासे सवत्सरे वा माघ मासः अर्द्धमास सवंत्सरः एवं पौषः। खाविति किम् । माथी पौर्णमासी अस्मिन् पञ्चदशरात्रे। इतिशब्दः किमर्थः। विद्यमानेपि लक्षणे लौकिकप्रयोगानुसारणार्थः । इह मा भूत माघी पौर्णमासी अस्मिन् हि भवति संवत्सरपर्वणि ।
अश्वत्य ग्रहायणीभ्यां ठञ् ॥ १७ ॥
सास्मिन् पौर्णमासीति वर्तते। अश्वत्था आग्रहायणी इत्येताभ्यां पौर्णमासीतिवासमाभ्यामस्मिन्नित्तिई बर्थ ठञ् भवत्यणाऽपवादः । अश्वत्थेन युक्तः कालः अश्वत्था पौर्णमासी अस्मिन्मासै अर्द्धमासे संवत्सरे आश्वस्थिकः । अग्रहायणेन युक्तः कालः प्राग्रहायणी भाग्रहायणिकः।
-
-
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463