Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
महावृत्तिमहितम् ।
पुरुदेवस्य पौत्रादावर्क कीर्तिर्जिताहितः । पालयामास लक्ष्मीवान् मानवो मानवी प्रजाः ॥ वृद्धापत्यविवक्षाया तु गर्गादित्वाद्यजा भवितव्यम् । अपत्ये कुत्सिते मूढे मनौरौत्सर्गिकः स्मृतः ॥ नकारस्य च मूर्द्धन्यः तेन सिद्धयति माणवः । नेदं त्वार्थं बहु वक्तव्यम् माणवचरकात् खुजिति निपातनात् सिद्धम् । द्रिः ॥ १४८ ॥
यानि ऊर्ध्वमा पादपरिसमाप्तेस्तपान्वक्ष्यामः दिसंज्ञास्ते वेदितव्याः । वक्ष्यति राष्ट्रब्दाद्राज्ञोऽञ् । पाञ्चालः । पाञ्चालौ । पञ्चालाः । सत्यां द्विसज्ञायां द्रेर्बहुषु तेनैवास्त्रियामित्युप् सिद्धः ।
५६
राष्ट्रशब्दाद्रान्नोऽञ् ॥ १४८ ॥
राष्ट्र जनपद, राजशब्दश्चेह क्षत्रियपर्याय: । राष्ट्रशब्दाद्राजवाचिनः अपत्ये अञ् भवति स्वभावतः पचालादिशब्देन राष्ट्र राजा चाभिधीयते । अथवा पञ्चालानां निवासो जनपद इति निवासार्थे प्रागतस्याणो जनपद उसिति उति कृते अबरकालेनापि पंचालशब्देन क्षत्रियशब्दो लक्ष्यते यथा देवदत्तस्य पितेति पचालस्यापत्यं पाञ्चालः । पाञ्चालौ । पाञ्चलाः । ऐक्ष्वाकः । ऐदवाकौ । इक्षत्राकवः । इक्ष्वाकुशब्दस्य अजि श्रोगहत्येत्यादिना वख निपात्यते | राष्ट्रशब्दादिति किम् । श्रीविजयस्य त्रैविजयिः । द्रुह्योः द्रौह्यराः । राज्ञ इति किम् । पञ्चालो नाम ब्राह्मणः तस्यापत्य पाञ्चालिः । शाल्वेयगान्धारिभ्या ॥ ५० ॥
शाल्वा नाम क्षत्रिया तस्माद्वयच इति ढणि शाल्वेयः । साल्वेय गांधारि इत्येताभ्यां राजशब्दाभ्या चञ् भवति अत्रो.
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463