Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
जैनेन्द्रव्याकरणम् ।
तेन रक्तं रागात् ॥ १॥
रज्यतेऽनेन शुक्लं बस्त्विति रागः कुसुम्मादि द्रव्यं तेनेति भासमर्थात् रागविशेषवाचिनो मृदः रक्तमित्येतस्मिन्नर्थे यथाविहित त्यो भवति । कषायेण रक्तं वस्त्रं काषायम् । हारि द्रम् | कौसुम्भम् । माजिष्टम् । रागादिति किम् । देवदत्त ेन रक्तम् । पुंखौघः प्रायेणेत्येतद्घज्विधाने अपेक्ष्यते तेन वर्णविशेषस्य रागस्य ग्रहणादिह न भवति । पाणिना रक्तमिति इहोपमानाद्भवति काषायौ गर्दभस्य कर्णौ हारिद्रौ । कुक्कुटस्य पादाविति ।
६१
नीलपीतादकौ ॥ २ ॥
नील पीत इत्येताभ्यां भांताभ्यां रक्तमित्येतस्मिन यथासंख्यं अ क इत्येतो त्यौ भवतः | मीलेन रक्तं नीलम् । लिङ्गविशिष्टस्यापि ग्रहणम् । नील्या रक्त नीलम् | पीतेन रक्त पीतकम् ।
लाक्षारोचनाशकल कई माटुण् ॥ ३ ॥
ठण
लाक्षादिभ्यो भाममर्थेभ्यो रक्तमित्येतस्मिन्नर्थे भवति । प्रणोऽपवादः । लाक्षया रक्त लाक्षिकम् । साकलिकम् । सकलकर्द्धमाभ्यामपीष्यते ।
भाद्युक्तः कालः ॥ ४ ॥
तेनेति वर्तते भविशेषवाचिनो मृदः मासमर्थत् युक्त इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति योसो युक्तः श्चेत् कालस्तेन स भवति नित्ययुक्तौ हि भकालौ न तयोः सन्निकर्षविप्रकर्षौ स्तः तत्कथं पुष्यादिना भेन युक्तः काल इत्युच्यते व्यभिचाराभावात् नैष दोषः । इह पुष्यादिसमीपस्थे चन्द्रमसि पुष्यादयः शब्दाः वर्तमाना गृह्यन्ते 1
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463