Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० २ सू० १०१-१११] महावृत्तिसहितम्
मृगोत्तरपूर्वात्सक्थ्नः ॥४॥२१०१॥ मृग, उत्तर, पूर्व इत्येतेभ्यः परो यः सक्थिशब्दस्तदन्तात्बाटो भवति । मृगत्य सक्थि मृगसक्थम् । उत्तरसक्थम् । पूर्वसक्थम् । उपमानादिति वर्तते । फलकमिव सक्थि फलकसक्थम् । “विशेषणम्" [३३।५२] इत्यादिना पसः ।।
नाचो रात् ॥४।२।१०२॥ नौशब्दान्ताद्राटो भवति । द्वयो वोः समाहारो द्विनावम् । पञ्चनावम् । पञ्चनावप्रियः । द्वाभ्यां नौम्यामागतं द्विनावरूप्यम् । द्विनावमयम् । अहृदुपीत्यनुवर्तते । पञ्चभिनौभिः क्रोतः पञ्चनौः । अाहीयत्य ठण: "रादुबखौ” [३।१२६] इत्युप् । रादिति किम् ? परमनौः ।
अर्धाच ॥४।२।१०३॥ अचि परो यो नौराब्दस्तदन्तात्याट्टो भवति । श्रद्धं च सा नौश्च अर्द्धनावी । "विशेषणम्" [१॥३॥५२] इत्यादिना सः । लोकाश्रयं नपुंसकलिङ्गमपि दृश्यते । अर्द्धनावमिति ।
खार्या वा ॥ ४॥२॥१०४॥ खारीशब्दान्ताद्राडो भवति । द्वे खायौं समाहृते द्विखारम् । यदा टो न भवति तदा "प्रो नपि" [90915] इति प्रादेशः । द्विखारि । केचिरपुंलिङ्गं पठन्ति । तेषां "स्त्रीगोर्नीचः" [१।१८] इति प्रादेशे द्विखारिरिति । पञ्चखारप्रियः । पञ्चखाररूप्यम् । पञ्चखारीरूप्यम् । पञ्चखारमयम् । पञ्चखारीमयम् । पञ्चसु खारी भवः पञ्चखारी। टपक्षे की सिद्ध एव । इहार्दादिति वर्तते। अशब्दात्परो यः खारीशब्दस्तदन्ताबाटो भवति । अर्द्धवारम् । अखारी।
द्वित्रिभ्यामञ्जलेः ॥४।२।१०५॥ द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्ताहो भवति । द्वथोरञ्जल्योः समाहारो द्वबजलम् । व्यन्जलम् । द्वयजलं वनम् । यजलरूप्यम् । द्वयजलमयम् । केचिद् वेत्यनुवर्तयन्ति । तेन द्वयञ्जलिः । यजलप्रियः । इदाहृदुपीति वर्तते ! हृदुपि न भवति । द्वाभ्यामजलिभ्यां क्रीतो द्वयञ्जलिः । रादित्येव । द्वयोरञ्जलिः द्वयञ्जलिः।
__ ब्रह्मणो राष्ट्रेभ्यः ॥धारा१०६॥ राष्ट्रेभ्यः परो यो ब्रह्मन्शब्दत्तदन्तात्बाटो भवति । रादिति निवृत्तम् । अवन्ति ब्रह्मा अपन्तिब्रह्मः । मुराष्ट्र ब्रह्मा मुराष्ट्रब्रह्मः । ईबिति योगविभागात्सः । राष्ट्रेभ्यः किम् ? देवब्रह्मा नारदः।
कुमहद्भयां वा ॥१०॥ कुमहद्भ्यां परो यो ब्रह्मस्तदन्तात्याद्वा टो भवति। कुब्रह्मः । कुब्रह्मा । महाब्रह्मः | महाब्रह्मा ।
द्वन्द्वाच्चुदहषो रार्थ ॥४।२।१०८॥ रार्थः समाहारः। द्वन्द्वाद्रार्थे वर्तमानाच्चवर्गदकारहकारषकारान्ताटो भवति । वाक्च त्वक्च वाक्त्वचम् । श्रीलजम् । वागृपदम् । छनोपानम् । वाग्विधम् । द्वन्द्वादिति किम् ? पञ्चानां त्वां समाहारः पञ्चवक् । चुदय इति किम् ? वाक्तरित् । रार्थ इति किम् ? छत्रोपानही ।
हे शरदादेः ॥४।२।१०६॥ शरदाद्यन्ताटो भवति हमे। शरदादिषु ये झयन्तास्तेषां “गिरिनदीपौर्णमास्याग्रहायणीझयः" [४२११२] इति वा टः प्रातो नित्यार्थमिदं ग्रहणम् । हाधिकारः प्रागबसाधिकारात् । शरदः समीपमुपशरदम् । प्रतिशरदम् । “लक्षणेनाभिमुख्येऽभिप्रती" [1३।११] इति हसः । शरद् । विपाश् । अनन् । मनम् । उपानह । उपासद् । दिश । दिव । हिरुक् । कियत् । चतुर । हिमवत् । अनडुह । तद् । यद् । जराया जरस् च । दृश् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् । ।
अनः ॥४ारा११०॥ अन्नन्ताद्धाहो भवति । अध्यात्मम् । प्रत्यात्मम् । उपराजम् । परिराजम् ।
नपो वा ॥४।२।१११॥ अन इति वर्तते । अन्नन्तं यन्नम् तदन्ताद्धाट्टो भवति । पूर्वेण नित्ये प्राप्त विकल्पोऽयम् । उपचर्मम् । उपचर्म । उपकर्मम् । उपकर्म ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568