Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
[ प्र० ५ पा० ४ सू० ४-१२
४०२
यवार्थः सम्पद्यते । अवस्येति निर्देशात् "नानर्थकेऽन्तेऽलो विधिः" [१०] इति वा सर्वस्य स्थाने श्रोकारः । हे भोः । हे भवन् । हे भगोः । हे भगवन् । हे अघोः । हे अघवन् । भवच्छब्दो "भातेर्डवतुः " [उ० सू०] इति वत्वन्तः । तेन विशेषवाचित्वात्सम्बोधनम् । " मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" [ प ० ] इतीयं परिभाषा विभक्तीविषये नेष्यत इति स्त्रियां विधिर्न भवति । हे भवति । हे भगवति । हे श्रघवति । भो इति झिसंज्ञकं शब्दान्तरमस्ति तस्यायं प्रयोगः । भो सुन्दरि । भो भो नरेन्द्राः सुखमाध्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वस्य योऽशि || ५|४| ४ || रिरिति वर्तमानो विपरिणम्यते । श्रोकारपूर्वस्थावर्णपूर्वस्य च रे: यकारादेशो भवति श्रशि परतः । भोयत्र । भगोयत्र । घोयत्र । भोयाहि । भगोयाहि । घोयाहि । अवर्णपूर्वस्य सर्वज्ञयास्ते । देवायासते । नरा गच्छन्ति । अनन्तरसूत्रेण निवर्तितस्य योकारस्य ग्रहणादिह न भवति । गोरत्र । पटोरत्र । ओदपूर्वस्येति किम् ? मुनिरत्र । अशीति किम् ? वृक्षस्तत्र । छवीति सत्वस्यासिद्धत्वाद्यत्वं प्रसज्येत । रेरित्येव । पुनरत्र ।
व्योः खं वा || ५|४|५|| वकारयकारयोरशि परतः स्वं भवति वा । पदस्येत्यनेन विशेषणात्पदान्तयोर्योः सञ्ज्ञातव्यम् । पट इह । पटविह । वृक्षा अत्र | वृक्षावत्र । वकारसाहचर्याद्यकारस्याविशेषेण खम् । भो त्र । भोयत्र । सर्वज्ञ श्रास्ते । सर्वज्ञयास्ते । देवा ग्रासते । देवायासते । ते आसते । तयासते ।
हलि || ५|४|६|| अशीति वर्तते । व्योः खं भवति अशि हलि परतः । नित्यार्थ आरम्भः । देवा यान्ति । वाता वान्ति । वकारादौ "वलि ग्योः खम् " [४|३|५५ ] इत्यनेन यखं नाशङ्कनीयम् । तस्मिन् यकारस्यासिद्धत्वात् । ग्रशीति हलो विशेषणं किम् ? वृक्षव् करोतीत्यत्र मा भूत् । वृक्षं वनतीति वृक्षवन् । वृक्षवनमाचष्टे णिच् । वृक्षवयतेः पुनः क्विप् । “पूर्वत्रासिद्धे न स्थानिवत्" [१०] इति : स्थानिवद्भावो नास्ति । अशि तु हलि खं भवत्येव । वृक्ष हसति ।
मोऽनुस्वारः ||५||७|| अशीति निवृत्तम् । मकारान्तस्य पदस्य अनुस्वारो भवति हलि परतः । व्रतं रक्षति । धर्म शृणोति । अयं षडिकः । स्वर्गं साधयति । पाई हन्ति । हलीत्येव । इदमत्र । पदान्तस्येत्येव । रम्यते ।
नश्चापदान्तस्य झलि ||२४|८|| नकारस्य मकारस्य चापदान्तस्यानुस्वारो भवति झलि परतः । यशांसि । तितांसति । अनुस्वारस्यासिद्धत्वात् “सन्तस्फमहतो : " [४|४|७] इति दीत्वम् । मकारस्य - रंस्यते । अधिजिगांसते । “सनि” [१|४|११६ ] "इङ : " [ १|४|१२० ] इति गमादेशः । पदान्तस्येति किम् ? हे राजन् भवान् स्थास्यति । झलीति किम् ? राजन्यः । गम्यः ।
सम्राट् ||५|४|१|| सम्राडिति निपात्यते क्व्यन्ते राजतौ परतः । समो मकारस्य मकार एव निपात्यते । " सत्सूद्विष" [ २/२/५६ ] आदि सूत्रेण क्विप् । सम्राट् सगरः ।
हि म्परे घा || ५|४|१०|| म इति वर्तते । हकारे मकारपरे परतः मकारस्य वानुस्वारो भवति । किं लयति । किम्ालयति । कथं हालयति । कथम्ालयति । ज्वल ह्वल हाल चलन इत्यस्य णिचि "ज्वलल ालनमामगे वा" [ग० सू०] इति मित्सञ्ज्ञा । हीति किम् ? कथं स्मरति । म्पर इति किम् ? किं ज्वलयति ! प्राप्त विकल्पोऽयेम् । वाग्रहणं बहुलार्थम् । तेन " यवलपरे हकारे नकारस्य वा यवला भवन्ति " | किं ह्यः । किं ह्यः । किंवँ इलयति । किं हृलयति । किलँहूलादयति । किं ह्लादयति ।
नपरे नः || ५|४|११ ॥ नकारपरे हकारे परतः मकारस्य वा नकारादेशो भवति । किन् हृते । किं ह्नते । कथन्ते । कथं हृते ।
·
ङोः कुटुक्aरि ||४|४|१२|| ङकारणकारयोः पदान्ते वर्तमानयोः वा कुकू टुकू इत्येतावागमौ भवतः शरि परतः । प्राङक छेते । प्राशेते । पदान्ताज्भयः परस्य छत्वार्थं पूर्वान्तकरणम् । प्राङ्क्षण्डे । प्राङ
For Private And Personal Use Only
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568