Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 476
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ५ पा० ४ सू० १११-१२३ [संनुम इजादः ॥२४|१११॥ निंसनिक्षनिन्दो वा ॥१४११२॥ न भाभूपूकमिगमिप्यायीवेपाम् ॥१४|११३॥ षात् पदान्तात् ॥श४।११४॥ अन्तस्य ॥४।११५॥ पदव्यवायेऽपि ॥५।४।११६॥ ] शुभ्नादिषु ॥४।११७॥ तुम्ना इत्येवमादिषु शब्देषु नकारत्य णकारादेशो न भवति । शुभ । तुभ्नाति । नृप । नृप्नोति । इदमेव ज्ञापकम् । नृपिः स्वादावयस्ति । एकदेशविकृतस्यानन्यत्वात् तुम्नीतः । क्षुम्नन्ति । नृप्नुतः। नृप्नुवन्ति । विकरणान्तनिर्देशः किम् ? क्षोभणम् । तर्पणम् । नन्दिन् । नन्दन नगर इत्येतेषां "पूर्वपदात्वावगः" [५।४।८७] इति णत्वं प्राप्तम् । हरिनन्दी। हरिनन्दनः । गिरिनगरम् । नर्त्तन नदन गहन निवेश निवास अग्नि अनूप एतान्युत्तरपदानि सज्ञायामेव । परिनतनम् । परिनन्दनम् । भेरीनदनः । परिगहनम् । शरनिवेशः । शरनिवासः । शराग्निः । दर्भानूपम । प्राचार्यभोगीनः । “श्राचार्यादणत्वं च” [ग० सू०] । श्राचायोनी । “चतुहायनी वयसि द्रष्टव्या" [वा०] । “ईरिकादीनि च वनोत्तरपदानि सञ्ज्ञायाम्" [वा०] । ईरिका | तिमिर । समीर । कुवेर । हरि । कार । इति ईरिकादिः। प्राचार्ययूना। क्षत्रिययूना। दीर्घाहनी शरदिति । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः । न नृतेर्यङि ॥५॥४।११८॥ नृतेर्यङि णचं न भवति । नरीनृत्यते । नरीनृत्येते । नरीनृत्यन्ते । त्यस्खे । त्याश्रयात् । नर्ति । नरिनर्ति । नरीनतिं । स्तोः श्चुना श्चुः ।।४।११६॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों भवतः। अत्र स्थान्यादेशयोयथासंख्यम् , स्थानिनिमित्तयोस्तु नेष्यते । “शात्" [५/४/१२३] इति तवर्गस्य चत्वं प्रतिषेधाज्जायते । सकारस्य शकारेण । जिनालयश्शोभते । तस्यैव चवगेण | धन्यश्चिनोति पुण्यम् । श्रोबश्चू | वृश्चति पापम् । मुनिश्छिनन्ति कर्मबन्धम् । तवर्गस्य शकारेण । अग्निचिच्छेते। छत्वमसिद्धमिति शे चुत्वम् । पूर्वेण शकारेण । "शात्" [५।४।१२३] इति प्रतिषेधं वक्ष्यति । तवर्गस्य चवर्मेण । तत्त्वविच्चिनोति । तत्त्वविच्छादयति । तत्त्वविजयति । सरिज्झापः । भवाञकारीयति । श्चाविति सिद्धे श्चुनेति निर्देशः शादिति प्रतिषेधश्च ज्ञापकः। परेण पूर्वेण च चुना योगे चुत्वमिति । तेन राज्ञः । याआ। “मस्जिनशोझलि" [५/१॥३६] इति निर्देशात् मजति । भृज्जतीत्यत्र चुत्वे कर्तव्ये जश्त्वं नासिद्धम् । टुना ट्रः ॥५॥४।१२०॥ सकारतवर्गयोः षकारटवर्गाभ्यां योगे पकारटवर्गों भवतः । अत्रापि “न तोः पि" [५।४।१२२] इति प्रतिषेधात् स्थानिनिमित्तयोयथासङ्ख्याभावः। सकारस्य षकारेण । कष्षण्डे । तस्यैव टवर्गेण । अश्वष्टीकते । पुरुषष्टक्वयति । तवर्गस्य पकारेण परेण प्रतिषेधं वक्ष्यति । पूर्वेणा पेष्टा । पेष्टुम् । तवर्गस्य टवर्गेण | बृहट्टङ्कः । अट्ट अट्टते। तकारोपदेशः विपि स्फान्तखे च कृते श्रवणार्थः । मरुड्ढक्वयति। अड्ड । अड्डति । श्वाविद्वौकते । भवाण्याकारोयति । पदस्य टोर्नाम्नवतिनगरी ॥५॥४।१२१॥ पदस्य टोः परेषां नाम्नवति नगरी इत्येतेषां टुत्वं भवति । घण्णाम् । षएगावतिः । परणागर्यः । नियमार्थमिदम् । पदान्तटोः परस्य नाम्नवतिनगरीत्यस्यैव नान्यस्येति । तत्त्वामृतलिट् तरति दुःखम् । पदान्तस्यैव नियमादिहाप्रतिषेधः। ईड स्तुतौ । ई? । पदस्येति वर्तमाने पुनः पदस्येति ग्रहणमन्तार्थम् । ननु तथापि नाम्नवतिनगरीषु परतः पूर्वस्य पदान्तत्वसिद्धेः पदस्येति किमर्थम् ? अतुल्यजातीयस्य सकारस्यापि परस्य ष्टुत्वनिवृत्तिर्यथा स्यात् । मधुलिट् सीदति । न तो पि ॥५॥४।१२२॥ तवर्गस्य षकारे यदुक्तं तन्न भवति । टुत्वमुक्तम् । तीर्थकृत् पोडशः । भवान्पण्डः। १. प्रतिषु [ ] कोष्ठकान्तर्गतानां सूत्राणां वृत्तिः खण्डिता । सूत्राणि तु जैनेन्द्रपञ्चाध्यायीमनुसृत्यात्र निर्दिष्टानि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568