________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ४ सू० १११-१२३ [संनुम इजादः ॥२४|१११॥ निंसनिक्षनिन्दो वा ॥१४११२॥ न भाभूपूकमिगमिप्यायीवेपाम् ॥१४|११३॥ षात् पदान्तात् ॥श४।११४॥ अन्तस्य ॥४।११५॥ पदव्यवायेऽपि ॥५।४।११६॥ ]
शुभ्नादिषु ॥४।११७॥ तुम्ना इत्येवमादिषु शब्देषु नकारत्य णकारादेशो न भवति । शुभ । तुभ्नाति । नृप । नृप्नोति । इदमेव ज्ञापकम् । नृपिः स्वादावयस्ति । एकदेशविकृतस्यानन्यत्वात् तुम्नीतः । क्षुम्नन्ति । नृप्नुतः। नृप्नुवन्ति । विकरणान्तनिर्देशः किम् ? क्षोभणम् । तर्पणम् । नन्दिन् । नन्दन नगर इत्येतेषां "पूर्वपदात्वावगः" [५।४।८७] इति णत्वं प्राप्तम् । हरिनन्दी। हरिनन्दनः । गिरिनगरम् । नर्त्तन नदन गहन निवेश निवास अग्नि अनूप एतान्युत्तरपदानि सज्ञायामेव । परिनतनम् । परिनन्दनम् । भेरीनदनः । परिगहनम् । शरनिवेशः । शरनिवासः । शराग्निः । दर्भानूपम । प्राचार्यभोगीनः । “श्राचार्यादणत्वं च” [ग० सू०] । श्राचायोनी । “चतुहायनी वयसि द्रष्टव्या" [वा०] । “ईरिकादीनि च वनोत्तरपदानि सञ्ज्ञायाम्" [वा०] । ईरिका | तिमिर । समीर । कुवेर । हरि । कार । इति ईरिकादिः। प्राचार्ययूना। क्षत्रिययूना। दीर्घाहनी शरदिति । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ।
न नृतेर्यङि ॥५॥४।११८॥ नृतेर्यङि णचं न भवति । नरीनृत्यते । नरीनृत्येते । नरीनृत्यन्ते । त्यस्खे । त्याश्रयात् । नर्ति । नरिनर्ति । नरीनतिं ।
स्तोः श्चुना श्चुः ।।४।११६॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों भवतः। अत्र स्थान्यादेशयोयथासंख्यम् , स्थानिनिमित्तयोस्तु नेष्यते । “शात्" [५/४/१२३] इति तवर्गस्य चत्वं प्रतिषेधाज्जायते । सकारस्य शकारेण । जिनालयश्शोभते । तस्यैव चवगेण | धन्यश्चिनोति पुण्यम् । श्रोबश्चू | वृश्चति पापम् । मुनिश्छिनन्ति कर्मबन्धम् । तवर्गस्य शकारेण । अग्निचिच्छेते। छत्वमसिद्धमिति शे चुत्वम् । पूर्वेण शकारेण । "शात्" [५।४।१२३] इति प्रतिषेधं वक्ष्यति । तवर्गस्य चवर्मेण । तत्त्वविच्चिनोति । तत्त्वविच्छादयति । तत्त्वविजयति । सरिज्झापः । भवाञकारीयति । श्चाविति सिद्धे श्चुनेति निर्देशः शादिति प्रतिषेधश्च ज्ञापकः। परेण पूर्वेण च चुना योगे चुत्वमिति । तेन राज्ञः । याआ। “मस्जिनशोझलि" [५/१॥३६] इति निर्देशात् मजति । भृज्जतीत्यत्र चुत्वे कर्तव्ये जश्त्वं नासिद्धम् ।
टुना ट्रः ॥५॥४।१२०॥ सकारतवर्गयोः षकारटवर्गाभ्यां योगे पकारटवर्गों भवतः । अत्रापि “न तोः पि" [५।४।१२२] इति प्रतिषेधात् स्थानिनिमित्तयोयथासङ्ख्याभावः। सकारस्य षकारेण । कष्षण्डे । तस्यैव टवर्गेण । अश्वष्टीकते । पुरुषष्टक्वयति । तवर्गस्य पकारेण परेण प्रतिषेधं वक्ष्यति । पूर्वेणा पेष्टा । पेष्टुम् । तवर्गस्य टवर्गेण | बृहट्टङ्कः । अट्ट अट्टते। तकारोपदेशः विपि स्फान्तखे च कृते श्रवणार्थः । मरुड्ढक्वयति। अड्ड । अड्डति । श्वाविद्वौकते । भवाण्याकारोयति ।
पदस्य टोर्नाम्नवतिनगरी ॥५॥४।१२१॥ पदस्य टोः परेषां नाम्नवति नगरी इत्येतेषां टुत्वं भवति । घण्णाम् । षएगावतिः । परणागर्यः । नियमार्थमिदम् । पदान्तटोः परस्य नाम्नवतिनगरीत्यस्यैव नान्यस्येति । तत्त्वामृतलिट् तरति दुःखम् । पदान्तस्यैव नियमादिहाप्रतिषेधः। ईड स्तुतौ । ई? । पदस्येति वर्तमाने पुनः पदस्येति ग्रहणमन्तार्थम् । ननु तथापि नाम्नवतिनगरीषु परतः पूर्वस्य पदान्तत्वसिद्धेः पदस्येति किमर्थम् ? अतुल्यजातीयस्य सकारस्यापि परस्य ष्टुत्वनिवृत्तिर्यथा स्यात् । मधुलिट् सीदति ।
न तो पि ॥५॥४।१२२॥ तवर्गस्य षकारे यदुक्तं तन्न भवति । टुत्वमुक्तम् । तीर्थकृत् पोडशः । भवान्पण्डः।
१. प्रतिषु [ ] कोष्ठकान्तर्गतानां सूत्राणां वृत्तिः खण्डिता । सूत्राणि तु जैनेन्द्रपञ्चाध्यायीमनुसृत्यात्र निर्दिष्टानि ।
For Private And Personal Use Only