________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ४ सू० १०२-११०] महावृत्तिसहितम्
४१५ हिम्योर्नुनोः ॥१४।१०२॥ हि मी इत्येतयो? नुनौ तयोर्णत्वं भवति गिस्थान्निमित्तात् । प्रहिणोति । प्रहिणुतः । प्रमीणाति । प्रमीणीतः । एबीत्वयोः कृतयोः एकदेशविकृतस्यानन्यत्वाएणत्वम् ।
प्रानि ॥१४।१०३॥ आनीत्येतस्य धोः परस्य णो भवति । आनि प्रति गित्वाभावादिह गिग्रहणं आदिमात्रोपलक्षणम् । प्रवपाणि । प्रापयाणि । अर्थवग्रहणपरिभाषयाऽर्थवत एव नेर्ग्रहणादिह न भवति । प्रवृद्धा वपा येषां तानि प्रवपानि मांसानि | आनीत्यविभक्तीको निर्देशः।
__णोऽनितेः ॥१४॥१०४॥ गेः परस्यानितेनंकारस्य णो भवति । प्राणिति । पर्यणिति । अड्व्यवायेऽपि । पर्याणीत् । पुनर्णग्रहणमपवादविषयेऽपि णत्वार्थम् । हे प्राण ? इति । क्रथन्तस्य किः । “अन्तस्य" [५३१११५] इति प्रतिषेधः प्रातः । तिपा निर्देशो यकुबन्तनिवृत्त्यर्थः ।
__ सचस्योभौ ॥४॥१०५॥ सचस्यानितेरुभौ नकारौ विनम्यते । गेरिति वर्तते । प्राणिणिपति । पराणिणिपति ! पराणिणत् । अत्र द्वित्वे कृते चरूपेण व्यवधानाद्धो कारस्य न प्राप्नोतीत्येवमर्थं सूत्रम् । उभौग्रहण किमर्थम् ? यावता पूर्वनकारस्य पूर्वसूत्रेण णत्वं सिद्धम् । धोस्त्वारम्भसामर्थ्यान्नकारस्य व्यवधानेऽपि भविध्यति । नापि द्वितीयस्य णत्यमुच्यमानं पूर्वस्यापवादः । सचस्येति बसनिर्देशात् । अन्यथा चादित्येवोच्येत । नियमार्थं ता भौग्रहणम्-गेरनन्तरमुभयोरेव णत्वं न तृतीयस्य । प्राणिणिषयतेः लुङि कचि च कृते पुनः कचि द्वित्वे सति प्राणिणिनिषत् । ननु च "पूर्वत्रासिद्धीयमद्वित्वे" इति वचनात् कृतणत्वस्य द्वित्वे सति उभयोर्णत्वं लभ्यत इति नार्थोऽनेनेति उभौग्रहणार्थं तर्हि सूत्रं कर्तव्यम् । न च "पूर्वबासिद्धीयमद्वित्वे" इतीदं सर्वविषयम् अन्यथा श्रौजिढदित्यत्र ढत्वधत्वष्टुत्वढखानामसिद्धत्वाभावात् इति इत्येतस्य द्वित्वं न स्यात् ।
हन्तेरघः ॥२४॥१०६॥ घर्तिस्य हन्ते कारस्य णो भवति । गेरिति वर्तते । प्रहण्यते । परिहणनम् । अन्तःशब्दस्य गिसञोक्ता । अन्तर्ह एयते । अन्तहणनम् । उत्तरत्र वेति व्यवस्थितविभाषावलोकनात देशविषये न भवति । अन्तहेननो देशः । अघ इति किम् ? प्रघ्नन्ति । प्राधानि । “धनान्तर्धण" [२।३।६६] आदि सूत्रे अन्तर्पणादीनां निपातनाएणत्वम् । अघ इति योगविभागात् । हन्तेग्यपूर्वस्यैव णलम् । तेनेह न भवति । वृत्रन इति । सज्ञायां “पूर्वपदात्वावगः" [५४८५] इति णत्वं प्राप्तम् । असज्ञात्वे "एकाज द्यौ णः" [५।४।६६] इति ।
वा म्बोः ॥५।४।१०७॥ मकारवकारयोः परतः हन्ते कारस्थ वा णत्वं भवति । प्रहरवः । प्रहन्यः । प्रहएमः। प्रहन्मः । वाग्रहणं पूर्वविधीनां नित्यार्थम् ।
कृत्यचः॥१४|१०८॥ कृत्स्थो यो नकारः तस्याच उत्तरस्य णो भवति स चेन्नकारपरो भवति गिस्थान्निमित्तात | कृतीति नकारस्य विशेषणं नाचः । कृत्सज्ञकाच्चाचः परस्य नकारस्य णत्वं भवतीत्यर्थः। प्रयाणम् । प्रवहणम् । प्रयायमाणम्। प्रयाणीयम्। अप्रयाणिर्हन्त ते वृषल । प्रयायिणः । प्रहीणः । प्रहीणवान् । अन्तःशब्दस्य गित्त्वे अन्तर्याणम् । अन्तरयणम् । वेति व्यवस्थितविभाषाभिसम्बन्धादिह न भवति । अन्तरयनो देश इति । इहापि भवति । निर्विष्णः प्राबाजीदिति । अच इति किम् ? प्रभुग्नः ।
णे ॥१४।१०६॥ एयन्ताद्यो विहितः कृत्तत्स्थस्याच उत्तरस्य नकारस्य वा णत्यं भवति । गेरिति वर्तते । प्रयापणम् । प्रयापनम् । ननु प्रयाप्यमाण इत्यत्र यका व्यवहितत्वात् कथं कृतो णत्वम् ? अव्यवाय इति वर्तते । ण्यन्ताद्विहितस्य कृतो व्यवायेऽपि णत्वं भविष्यति । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् ।
हलश्चेजुङः ॥५४।११०॥ इजुङः सर्वस्य हलन्तत्वात् हल्ग्रहणमादिविशेषणम् । हजादेरिजुङो धोः परस्य कृति नकारस्य वा णत्वं भवति गेनिमित्तात् । प्रकोपणम् । प्रकोपनम् । प्रमोदणम् । प्रमोहनम् । "कृत्यचः [५।४।१०८] इति नित्ये प्राप्ते विकल्पः ।
For Private And Personal Use Only