________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ४ सू० ६७-१०१ [२१२।३] इति कः। सुरायां वाचि पिचतेः “सुराशीध्वोः पिबः" [२।२।१२] इति टक् । पुनर्णग्रहण नित्यार्थम् ।
कुमति ॥१४॥७॥ कवर्गवति च द्यौ मृदन्तनुविभक्तीनकारस्य णत्वं भवति । इक्षुयुगिणौ । करयुगिणी । इक्षुयुगेण । अनेकाध्वर्थं वचनम् । काविति सिद्ध कुमतीति मत्वर्थीयः किम् ? अकवर्गादावपि घौ प्रापणार्थम् । अन्यथा “येनालि विधि" न्यायेन कवर्गादावेव स्यात् ।
गेरसेऽपि विकृतेः ॥२८॥ गेरुत्तरस्य सामर्थ्याद्धोर्विकारस्यासेऽपि णो भवति । असे । प्रणमति । परिणमति । से-प्रणायकः । परिणायकः । विक्रियते इति विकृतिः नकारः। अवयवविकारे समुदायस्य धोर्विकारो यथैकदेशाऽलङ्कारेऽलङ्कतो देवदत्त इति । ततो विकृातें प्रति क्रियायोगिस्वात् प्रादीनां गित्वम् । गेरिति किम् ? मुनिर्नयति स्वर्गम् । प्रगता नायका अस्माद्ग्रामात् प्रनायको ग्रामः । अपिग्रहणं किम् ? से पूर्वपदात् खाविति नियमात् णत्वं न स्यात् । ननु णत्वस्यासिद्धत्वान्न नियमप्राप्तिः। इदमेवापिग्रहणं ज्ञापकम् । "न योगे योगोऽसिद्धोऽपि तु प्रकरणे प्रकरणमसिद्ध' भवति"। तेन निष्कृतं दुष्कृतमित्यत्र “इणः षः" [५।१।२७] इति पत्वे क्रियमाणे "इडुदुङः" [पा४।२८] इति सत्वं नासिद्धम् । विकृतेरिति किम् ? प्रनृत्यति । प्रनर्तकः । अयमोपदेशिको नकारो न तु "णो नः" [४३३५४] इत्यनेन विकृतः । "नृतिनन्दिनक्किनानाथवजम्" इति वचनात् ।
नशेः शः ॥ ६६॥ नशेः शकारान्तस्य णत्वं भवति । प्रणश्यति । परिणश्यति । प्रणाशकः । परिणाशकः । श इति किम् ? प्रनष्टः । प्रनयति । शकारत्यैवेति नियमात् णत्वाभावः । नशेरेव शकारान्तस्येति कस्मान्न नियमः। अन्यस्य शकारान्तस्यासम्भवात् । सम्भवे वा णत्वोपदेशादेव व्यावृत्तिः । णत्वोपदेशो हि "णो नः" [४।३।५४] इति विकृतिद्वारेण णत्वार्थः ।
नेर्गदनदपतपदभुमास्यतिन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ॥शा००॥ गिस्थानिमित्तात परस्य गे कारस्य णत्वं भवत्यसेऽपि गदादिष परतः ।। परिणिगदति । सेऽपि । प्रणिगदिता | परिणिगदिता । प्रणिनदति । प्ररिणिनदति । प्रणिनदिता। परिणिनदिता । प्रणिपतति । प्रणिपतिता । प्रणिपद्यते । प्रणिपत्ता | भुसज्ञे-प्रणिददाति । प्रणिदाता । प्रणिदधाति । प्रणिधाता। मा इति माङमेडोहणम् । प्रणिमिमीते। प्रणिमाता। मेङः कृतात्वस्यैव ग्रहणम् । प्रगिमास्यते। प्रणिमाता । "मी हिंसायाम्" । “दुमि प्रक्षेपणे" इत्यनयोः "मिम्मीग्दीडां प्ये च" [१३१४३] इति कृतात्वयोः “मा माने" इत्यस्य च न ग्रहणम् । अस्य शेषत्वेनोत्तरत्र वेति व्यवस्थितविभाषाऽत: सर्वमिदं लभ्यते । प्रणिष्यति । प्रणिपाता | प्रणिहन्ति । प्रणिहन्ता । प्रणियाति । प्रणियाता । प्रणिवाति । प्रणिवाता। प्रणिद्राति । प्रणिद्राता । प्रणिप्साति । प्रणिप्साता। प्रणिवपति । प्रणिवप्ता। प्रणिवहति । प्रणिवोढा । प्रणिशाम्यति । प्रणिशमिता । प्रणिचिनोति । प्रणिचेता । प्रणिदेग्धि । प्रणिदेग्धा । गदादिष्वीम्निर्देशादनन्तरत्य कार्यमित्यटा व्यवाये कथं णत्वम् । प्रण्यगदत् । परिण्यगददिति । अडागमश्च गोर्विहितो विकरणान्तश्च गुरशक्यो गदग्रहणेन ग्रहीतुमिति । नैष दोषः । अड्व्यवाये इति मण्डूकप्लुत्या सम्बध्यते । तिपा निर्देशा यकुबन्तनिवृत्त्याः ।
घाऽषान्तेऽकखादौ ॥५।४।१०१॥ गेरिति वर्तते । अषकारान्ते अककारखकारादौ धौ परतः गिस्थानिमित्ताद्वा नेो भवति । प्रणिपचति । प्रनिपचति । परिणिभिनत्ति । परिनिभिनत्ति । अषान्त इति किम् ? प्रनिपेष्टा । अन्तग्रहणामुपदेशार्थमिहापि न भवति । प्रनिपेक्ष्यति । प्रच्छेश्छकारान्तत्वाद भवति । प्रतिप्रप्टा। अकखादाविति किम् १ प्रनिकरोति । प्रनिखादति । अचापि अकखोरिति सिद्धे आदिग्रहणमुपदेशार्थम् । प्रनिचकार । प्रनिचखाद ।
For Private And Personal Use Only