________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ४ सू० ६१-६६ 1
महावृत्तिसहितम्
४१३
वनस्पतिरिति वनस्पतिग्रहणं कृतम् । एतेभ्य इति वनम् । “वरणादेः " [३।२।६२] इत्युप् । उपि कृते सङ्ख्ययोरेवातिदेशो न वनस्पतित्वस्येति गत्वाभावः ।
पुष्पफले अन्यतरच्चोपगच्छन्ति ये ते वृक्षाः । तत्र यो वनस्पतिः स वृक्षो भवत्येव । वृक्षस्तु नावश्यं किम् ? शिरीपवनम् । शिरीषाणामदूरभवो ग्रामः तस्य "युक्तत्रदुसि लिङ्गसङख्ये" [919185 ] इत्यनेन लिङ्ग
श्रतोऽह्नः ||५|४|६१॥ अकारान्तात्पूर्वपदादुत्तरस्य ग्रनो नकारस्य णत्वं भवति । पूर्वाह्णः । अपराह्णः । " पूर्वापर प्रथम " [ २|३|५३ ] आदि सूत्रेण पसः । " राजाहः सखिभ्यष्टः " [ ४/२/६३] इति टः । “एभ्योऽह्नोऽह्नः” [४।२।६० ] इत्यहूनादेशः । श्रत इति किम् ? निरह्नः । दुरह्नः । निर्गतमहः । दुष्टमहः । तपरकरणं किम् ? परावृत्तमहः पराहूनः । ग्रह्न इति सूत्रे वृत्तिघटितैकदेशो वान्तः । “सूत्रेऽस्मिन् सुब्विधिरिष्टः” [ ५/२/११४ ] इति तास्थाने वानिर्देशाद् व्याख्येयः । ग्रहून इति प्रकारान्तनिर्देशाद्दीर्घाहूना शरदित्यत्र न भवति । दीर्घाभ्यहान्यस्यामिति यसे " बोड्खे” [३|१|११] इति वा ङीविधिः ।
वाह्याद्वाहनम् ||५|४|१२|| कालसामान्ये वोढव्यं वाह्यम् । वाह्यादुत्तरस्य वाहनस्य त्वं भवति । ऊह्यतेऽनेनेति वहनम् । प्रज्ञादित्वात् स्वार्थिकोऽण् । अतो वा निपातनादुङो दीत्वम् । इक्षुवाहणम् । शरवाहम् । कर्मणि तासः । वाह्यादिति किम् ? सुवाहनम् । सुरस्वामिकमित्यर्थः । एवं नरवाहनः । नात्र वाह्यात्परं वाहनम्, किन्तु वाहनात् । वाह्यवाहकसम्बन्धे त्वं भवत्येव । सुवाणम् । नरवादण्म् । खौ पूर्वेण सिद्धं त्वं नरवाह इति ।
पानं देशे || ५|४|१३|| पाननकारस्य णत्वं भवति देशे गम्ये । सर्वत्र पूर्वपदस्थान्निमित्तादिति वर्तते । कृपायपोणाः गान्धारयः । क्षीरपाणाः आन्ध्राः । सौवीरपाणाः द्रमिणाः । सुरापाणाः प्राच्याः । अतिशयोऽत्र गम्यते । तात्स्थ्यात्ताच्छच्यमिति मनुष्याभिधाने देशाभिधानम् । पौयते इति पानम् । “बुढैया बहुलम्" [२|३|१४] इति कर्मणि युट् । कपायं पानमेषामिति कर्तरि ता । देश इति किम् ? दाक्षिपानम् । क्षीरपाना
गोपालकाः ।
भावकर || ५|४|१४|| भावे करणे च यः पानशब्दस्तन्नकारस्य वा त्वं भवति । भावे-क्षीरपाणन् । क्षीरपानं वर्तते । करणे - पीयतेऽनेनेति पानः । वारिपाणः । वारिपानः कंसः । वेति योगविभागाद्द्विरिनद्यादि वा त्वम् । चक्रगदी । चक्रनदी । चक्ररिणतम्बा । चक्रनितन्त्रा ।
मृदन्तनुविभक्त्याम् ||५|४|१५|| मृदन्ते नुमि विभक्त्यां च यो नकारः तस्य पूर्व स्थान्निमित्ताद् वा णत्वं भवति । मृदन्ते - माप्रवापिणौ । माषवापिनौ । त्रीहिवापिणौ । त्रोहियापिनौ । “प्रायोऽभी चण्ये" [२|२| ६६ ] इति णिन् । नुमि । भाषवापाणि । मापवापानि । “ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव " [५० ] इति नुमो मृदन्तग्रहणेनाग्रहणम् । विभक्त्याम् - मानवापेण । मापवापेन । व्रीहिवापेण । त्रीहिवापेन । नियमादप्राप्ते विकल्पः । पूर्वपदादिति वर्तते तेन सम्बन्धादुत्तरपदं यन्मृत्सञ्ज्ञं तदन्तस्य विकल्पः । तेनेह न भवति । गर्गाणां भगिनी गर्गभगिनीति | यदा यु गर्ग भगशब्दान्मत्वर्थीय इन् तदा त्वं भवत्येव । गर्गभगिणीति । "पूर्वपदात्खावगः” [५।४।८७] इत्यनेनोत्तरपदस्थस्य नकारस्य णत्वं निवर्त्यते । न त्यस्थस्येत्युक्तम् । यथा मातृभोगीण इत्यत्र समुदायस्य समान | पुरुवारिणी इत्यत्र विकल्पस्य बहिरङ्गत्वादसिद्धत्वाच्चादिसूत्रेण नत्वम् । मात्रवापिणा मापचापिना इत्यत्र पूर्वपदस्थान्निमित्तात्परस्य विधिरिति । मृदन्तत्वाद्विकल्पः । वेति व्यवस्थितविभाषाऽनुवर्तनादिह न भवति । श्राचार्ययूना | क्षत्रिययूना । प्रपक्कानि । परिपक्वानि । दीर्घाही शरदिति ।
एकाच्यौ गः ॥ ५२४|६६ || एकाचि यौ पूर्वपदस्थान्निमित्तात्परस्य मृदन्तनुविभक्तीन कारस्य कारो भवति । ब्रह्मणौ । वृत्रहणौ । क्षीरपाणि । सुरापाणि । चीरपेण । सुरापेण । "श्रातः कः "
For Private And Personal Use Only