________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
जैनेन्द्र-व्याकरणम्
[ ० ५ पा० ४ सू० ८०-६०
तदा भवेत्" इति । "रिवि रवि गतौ” इत्यस्य । रिश्वनम् । रिश्वनीयम् । झल्परत्वाभावादनुस्वारी नास्तीति गत्वाभावः । तुम्फणम् । तृम्फणीयमित्यत्र परस्वत्वस्यासिद्धत्वादनुस्वारोऽस्तीति णत्वं भवति ।
पूर्वपदात् खावगः ॥ ५२४८७|| खु इति वर्तते । षकाररेफवतः पूर्वपदात् श्रगकारान्तात् उत्तरस्य नकारस्य णो भवति खुविषये । पुष्पणन्दी । श्रीणन्दी । श्रीनन्दिशब्दस्य क्षुम्नादिषु णत्वं निषिद्धम् । खरसः । वासः । खाविति किम् ? शुष्कनासिकः । दीर्घनासिकः । श्रग इति किम् ? ऋगयनम् । क्षुम्नादिषु नृनमनतृप्नोतिशब्दयोः प्रतिषेधवचनं ज्ञापकम् ऋकारस्था फादजंशेन व्यवहितत्वात् पदस्य णत्वं भवतीति गत्यप्राप्तिः । नियमार्थोऽयं योगः । पूर्वपदात्खावेव नान्यत्र । अथ पूर्वपदादेव खाविति कस्मान्न नियमो भवति । एवं सति खुनियमः स्यात् । अखुविषये पूर्वेण गत्वसिद्धेः " वाह्याद्वाहनम् " [ ५/४६२] इत्याद्यारम्भोऽनर्थकः स्यात् । त्र से कृते समुदायाद्या विभक्ती तया समुदायस्यैकपदत्वे पूर्वेण प्राप्तिरस्तीति नियमो घटते । पूर्वपदत्वं तु स्मर्यमाणाव यवापेक्षम् । पूर्वपदशब्दश्च सम्बन्धिशब्दः । तेनोत्तरपदस्थस्य नकारस्य णत्वं नियमो निवर्तयति न पूर्वपदस्थस्य नापि त्यस्थस्य । करणप्रियः । खारपायणः । करणं प्रियमस्य । खरपस्यापत्यमिति विग्रहः । श्रग इत्यनन्तरस्य प्रतिषेधः प्राप्नोतीति चेत् ; तत्र को दोपः ? खौ चाखौ च पूर्वेण णत्वं स्यात् । एवं तर्हि श्रग इति योगविभागः । तेन विधिनियमयोः प्रतिषेधः ।
ai पुरगामिश्रकासिद्ध काशारिकाकोटराग्रेभ्यः || ५|४|८८ || खाविति वर्तते । पुरगा मिश्रका सिद्धका शारिका कोटरा श्रम इत्येतेभ्यः परं वनं विनम्यते । विनाम इति पत्वगत्वयोः सञ्ज्ञा । पुरगावणम् । मिश्रकावणम् | सिद्धकावणम् । शारिकावणम् । कोटरावणम् । तासे कृते पूर्वपदस्य " गिरिवने किंशुलुककोटरायोः खौ” [४।३।२२०] इति दीत्वम् । वनस्याये वणम् | "राजदन्त” [१।३।६६ ] श्रादित्वात्पूर्वनिपातः । "ईपोल: ” [ ४ | ३|१२७] इत्यनुप् । “सिद्धे सत्यारम्भो नियमार्थः " । एतेभ्य एव वनं विनम्यते नान्येभ्यः । मनोहरवनम् । अथ पुरगादिभ्यो वनमेव विनम्यते नान्यदिति कस्मान्न नियमः । एवं सति पुरगादिनियमः स्यात् । वनं त्वनियतं तस्य खौ पूर्वेणैव त्वं सिद्धमित्युत्तरसूत्रे खावपि प्रादिभ्यः परं वनं विनम्यत इत्यपिशब्दोऽनर्थकः स्यात् । ज्ञायते पुरगादिभ्य एव वनं विनम्यते इति नियमः । पुरगादीनां कृतदीत्वानामुच्चारणं किम् ? यत्र व त्वं तत्रैव त्वं यथा स्यात् । इदमेव ज्ञापकमनित्यं श्रौ दीत्वमिति तेन लम्बकर्ण: । विद्भकः । अलिरुक् । कमलरु इत्येवमादि सिद्धम् ।
प्रान्तर्निः शरे क्षुप्लताम्रकार्ण्यखदिरपीयूक्षाभ्योऽखावपि ॥ ५४८९ ॥ प्र अन्तर् निस् शर इतु लक्ष आम्र का खदिर पीयूक्षा इत्येतेभ्यः परं वनं विनम्यते श्रखावपि खावपि च । प्रवणम् । अन्तर्वणम् । निर्वणम् । शरवणम् । इक्षुवणम् | प्लक्षवणम् । कार्ण्यवरणम् । खदिरवणम् । पीयूक्षावरणम् । प्रगतं वनम्, अन्तर्गतं वनम् निर्गतं वनमिति विग्रहः । शरवणादिषु तासः । ये योषधिवनस्पतिशब्दा न भवन्ति तेभ्यः खौ सौ च पूर्वाभ्यामप्राप्ते विधिः । भोषधिवनस्पतिशब्देभ्यस्तु खावप्रासे विधिः । श्रखौ तूत्तरसूत्रेण विकल्पे प्राप्ते नित्यार्थं वचनम् । अपिशब्दस्य पूर्वसूत्रे प्रयोजनमुक्तम् ।
विभाषौषधिवनस्पतिभ्यः || ५|४|१०|| ओषधिवनस्पतिशब्देभ्यः परं वनं विभाषा विनम्यते । पधिभ्यः- दूर्वावणम् । दूर्वावनम् | ब्रोहिवणम् | त्रीहिवनम् । वनस्पतिभ्यः - करीखणम् । करीवनम् । आरुकवणम् । श्रारुकवनम् । व्यवस्थितविभाषाऽऽश्रयणात् द्वयक्षरत्र्यक्षरयोविकल्पः । तेनेह न भवति । भद्रदारुवनम् | "ईरिकादिभ्यश्च न भवति" [वा०] । ईरिकावनम् । तिमिरवनम् । समीरवनम् । खौ पुरगादिभ्य एव वनं विनम्यते इत्यखावियं विभाषा । स्रौ त्वसिद्धत्वान्नियमेन बाध्यते । यदि खावपि प्रयोगोऽस्ति विभाषेति योगविभापान्नियमबाधा द्रष्टव्या । बहुत्वनिर्देश: पर्यायार्थः । इह वनस्पतिग्रहणे वृक्षाणामपि ग्रहणम् । यतः --- "फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः ।”
For Private And Personal Use Only