________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ४ सू० ७६-८६ ] महावृत्तिसहितम् नाप्राप्तन्यायेन" [५० ] "नाद्यन्ते" [५।४।७६] इत्यस्यैव प्रतिषेधस्य बाधकं गिलक्षणं न सिचो यीत्यस्य । अथवा "पुरस्तादपवादा अनन्तरान विधीन् बाधन्ते नोत्तरान्" [५० ] इति यङि सर्वत्र प्रतिषेधः । यडीति किम् ? परिधिषिक्षति ।।
सेधो गतौ ॥२७॥ सेधतेर्गत्यर्थस्य पत्वं न भवति । अभिसेधति । प्रतिसेधति गाः। “स्थासेन. यसेध" [५॥१४६] इत्यादिना प्राप्तस्य प्रतिषेधः । गताविति किम् ? प्रतिषेधति पापम् । निवारयतीत्यर्थः ।
निस्तब्धप्रतिस्तब्धौ ॥१०॥ निस्तब्ध प्रतिस्तब्ध इतीमौ शब्दौ निपात्येते । निस्तब्धः । प्रतिस्तब्धः। क्त परतः “स्तम्भः" [५।४।४८] इति प्राप्ते प्रतिषेधः ।
सोढः ॥२४८१॥ सहेः सोढभूतस्य पत्वं न भवति । परिसोढा। परिसोढुम् । एवं निसोढा । विसोढा । परिनिविभ्यः “सिवुसहसुट्स्तुस्वाम्" [५॥४५२] इत्यनेन प्राप्तिः। सोढभूतस्य ग्रहणं किम् ? परिषहते । निषहते । सोढ इति सहेः सोढभूतस्यानुकरणं ङसा निर्दिष्टः। ।
स्तम्भुसिवुसहां कचि ॥२४॥८२॥ स्तम्भु सिवु सह इत्येतेषां कचि परतः षत्वं न भवति । अभ्यतस्तम्भत् । पर्यतस्तम्भत् । “स्तम्भः" [५।४।४८] इन्यटा चेन च व्यवाये गिनिमित्तं प्रतिषिध्यते । सिवुसहोस्तु परिनिविभ्यः परयोः “वाटा" [५।४।५३] इति विकल्पः प्राप्तः। पर्यसीषिवत् । न्यसीषिवत् । पर्यसीषहत् । न्यसीषहत् । सर्वत्र गियुक्तापिणच क्रियते। गिलक्षणस्य षत्वस्यायं प्रतिषेधो न तु "त्यादेशयोः' [५/४॥३६] इत्यनेन चादुत्तरस्य व्यवहितत्वात् ।
सुत्रः स्यसनोः ॥२४॥३॥ सुनोतेः सकारस्य स्य सन् इत्येतयोः परतः पत्वं न भवति । अभिसोष्यते। परिसोष्यते । अभ्यसोष्यत । पर्यसोष्यत । सनि । सुसूषति। नैतयुक्तम् । “पणि चाणिस्तोरेव" [५४४१] इति नियमादत्राप्राप्तिः। इदं तर्हि अभिसुसूषति । अत्रापि “स्थादेश्चेन चस्य" [५।४।४४] इति नियमादप्राप्तिः । तत्रोक्तम् । गिनिमित्तं स्थादीनामेव षत्वं नान्यस्यति । क्विपि तह्य दाहरणम् । अभिसुसूः । रित्वे विसर्जनीये च कृते "पणि" [५॥४१४१] इति नियमाभावाच्चात्परत्य प्राप्तं षत्वं प्रतिषिध्यते । स्यसनोरिति किम् ? सुषाव ।
सदिस्वज्योः परस्य लिटि ॥४४॥ सदि स्वञ्जि इत्येतयोलिटि परत्य षत्वं न भवति । अभिषसाद | निषसाद । अभिषस्वजे। निषस्वजे। “लिटि स्वञ्जा न खं भवतीत्युपसंख्यातव्यम् वा अभिषष्वजे । विषष्वजे । सदेश्चेन व्यवाये “सदोऽप्रतेः" [५।४।४७] इति स्वजेस्तु "स्थासेनय" [५४४६] इत्यादिना पत्वे प्राप्त प्रतिषेधः।।
षो नो रणः समाने ॥५॥४८॥ पदस्यति वर्तमानं समान इत्यनेन समानधिकरणं जायते । षकाररेफाभ्यामुत्तरस्य नकारस्य णकारादेशो भवति समाने पदे चेनिमित्तनिमित्तिनौ भवतः। कुष्णाति । मुष्णाति । आस्तीर्णम् । विस्तीर्णम् । समान इति किम् ? मुनि यति । साधु यति स्वर्गम् । “धिन्विकृण्व्योर च" [२१११७५] इत्यत्र णत्वनिर्देशात् ऋकारादपि परस्य णत्वं भवति । तिसृणाम् । मातृणाम् । षकारग्रहणमुत्तरार्थम् । अव्यवाये ष्टुत्वेनापि सिद्धमेतत् ।
अकुप्वाब्यवायेऽपि ॥४॥८६॥ अट् कु पु आङ इत्येतैव्य॑वाये अव्यवायेऽप्यनेन षकाररेफा. भ्यामुत्तरस्य नकारस्य णो भवति । अट । वर्षेण | वृषेण । गिरिणा । मेरुणा । कु । निष्केण । शुष्केण । अर्केण । मूर्खेण । वर्गेण । दीर्घण । पु। पुष्पेण । सर्पण । दर्पण । रेफेण । गर्भेण । दर्भेण । धर्मेण । अाङ । पर्याणद्धम् निराणीतम् । अडग्रहणेनैव सिद्धे आङ् ग्रहणं "पदव्यवायेऽपि" [५।४।११६] अस्य बाधनार्थम् । अडादिप्वेकेनाकेन च व्यवाये णत्वं ज्ञातव्यम् । उभयथा वाक्यपरिसमाप्तेराश्रयणात् । यथा गर्गः सह न भोक्तव्यमेकेनाकेनेन च सह न भुज्यते । इह कथं णत्वम् बृंहणम् । बृहणीयम् । “तृहू स्तृहू हू हिंसाः " । Bहणम् । तृहणीयमिति । अनुस्वारस्यायोगवाहत्वादडग्रहणेन ग्रहणमिति णत्वम् । तदुक्तम्-"अयोगवाहो यब्रेष्टस्तत्र तत्र
For Private And Personal Use Only