________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૦
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० ४ सू० ७३-७८
इति प्रतिषेधो मा भूत् । सुपन्धिः । निःषन्धिः । दुःषन्धिः । श्रयमनादेशसकारः । सुष्ठु | दुष्ठु । तिष्टतेरौणादिकः कुः | अत्र "नाद्यन्ते" [ ५|४|७६ ] इति प्रतिषेधः प्राप्तः । गौरिसक्थः । “असिसञ्जिभ्यां विधः" [ उ० सू० ] इति क्थिः । गौर्याः सक्थीव सक्त्थि यस्येति इसे “स्वाङ्गाद्वेऽति सक्थनः " [ ४/२/११३ ] इति टः सान्तः । अनङ् । “नोऽपुंसो हृति” [ ४|४|१३० ] इति टिखम् "वे स्थापोः " [४|३|१७३ ] इत्यादिना प्रादेशः । प्रतिष्णिका | प्रतिपूर्वात् स्नातेः "आतो गौ” [२३८८] इति कः । टाप् । तदन्तात् स्वार्थे कः । पुनष्टाप् “केऽणः” [५।२।१२५] इति । प्रत्ययस्थेत्यादिनेत्वम् । नौपेविका । दुन्दुभिसेवनम् । सज्ञैषा । " एति सजायामगकारात् " [ग० सू०] । हरिषेणः । साधुषेणः । एतीति किमर्थः ? हरिसन्धिः । सञ्ज्ञायामिति किम् ? पृथ्वी सेनाऽस्य पृथुसेनः । श्रगकारादिति किम् ? विष्वक्सेनः । इएकोरित्येवा सर्वसेनः । "नक्षत्राद्वा एतिसज्ञायामगकारात् " [ वा० सू० ] | रोहिणिषेणः । रोहिणिसेनः । भरणिषेणः । भरणिसेनः । अगकारादित्येव । शतभिषक्सेनः । श्रविहितलक्षणं षत्वमिह द्रष्टव्यम् ।
प्रात्यमिङस्ति || ५|४|७३ || प्रादुत्तरस्य अमिङः सकारस्य पो भवति तकारादौ हृति परतः । सर्पिष्टरम् । सर्पिष्टमम् । चतुष्टयम् । सर्पिष्ठा । सर्पिष्ट्वम् । सर्पिष्ठो त्रिभेति । पदान्तेऽपि त्वार्थमिदम् । प्रादिति किम् ? गीस्तरा । धूस्तरा । हृतीति किम् ? सर्पिस्तत्र । अमिङ इति किम् ? भिन्युस्तराम् । छिन्युस्तराम् । तकारादाविति किम् ? सर्पिरसाद् भवति । पूर्वस्य मा भूत् । परस्य "सात्" [ ५१४७७ ] इत्येव प्रतिषेधः सिद्धः ।
निस्तपतावनासेवने || ५|४|७४ ॥ निसः सकारस्य तपती परतः पो भवत्यनासेवनेऽर्थे । मुहुर्मुहुः क्रियायाः सेवनमासेवनम् । निष्टतं सुवर्णम् । निस्तता अरातयः । सकृत्तता इत्यर्थः । अनासेवन इति किम् ? निस्तपति सुवर्णं सुवर्णकारः । मुहुर्मुहुस्तपतीत्यर्थः । इदमन्यन्ते विधानार्थम् | बुनिर्देशार्थरितपा निर्देशः ।
निष्णात नदीष्णात प्रतिष्णाताभिनिष्टानकपिष्ठलप्रष्टषिष्टरविष्टारगविष्ठिर युधिष्टिराः || ५|४|७५ || निष्णात नदीष्णात प्रतिष्णात अभिनिष्टान कपिष्टल प्रष्ट विष्टर विष्टार गविष्टिर युधिष्टिर इत्येते शब्दा निपात्यन्ते । “निनदीभ्यां स्नातस्य कौशले पत्वम्" । निष्णातः काव्यकरणे । नदीष्णातः । नदीनाने कुशल इत्यर्थः । निस्नातनदीस्नातावन्यत्र । योपि "सुपि" [२२७] "स्थः " [२२] इति योगविभागात्के कृते नदीष्ण इति । तस्य सुत्रामादिषु प्रत्वम् । प्रतिष्णातं भवति सूत्र चेत् । प्रतिस्नातमन्यत् । श्रभिनिःष्टानो भवति वर्णश्चेत् । अभिनिर्भ्यां परस्य स्तन ध्वन इत्यस्य कर्तरि घञि रूपम् | अभिनिःस्तन्यत इति श्रभिनिटानो विसर्जनीयः । अभिनिःस्तानोऽन्यः । कपिष्ठलो भवति गोत्रशब्दश्चेत् । कपिष्ठलोऽपत्यं यस्य कापिष्ठलिः । आद्यः पुमानपत्यसन्ततेः प्रवर्तयिता लोके गोत्रम् । ततोऽन्यः कपिस्थलम् । प्रष्ठ इति प्रात् स्थस्य त्वमग्रे ग्रामिरिण प्रतिष्ठते इति प्रष्टो देवदत्तः । प्रष्ठो गौः । प्रस्थ इत्यन्यत्र । अग्रेग्रामिणीत्यत्र " कुमति" [ ५|शह७ ] इति णत्वम् । “न भाभूपूञ्कमिगमि" [ ५|४|११३ ] इति गेः कृत्स्थस्य प्रतिषेधः । “वेः स्तरस्य वृक्षासनयोः पत्वम्" । विष्टरो वृक्षः । विष्टरमासनम् । विस्तर इत्यन्यत्र । “वेः स्तारस्य छन्दोनाम्नि त्वम्" । विष्टारः 1 पङक्तिछन्दः । विष्टारः बृहती छन्दः । "छन्दः खौ” [२१३१३२ ] इति घञ् । पदस्य विस्तार इत्यन्यत्र । “गवियुधिपूर्वस्य स्थिरस्य सञ्ज्ञायां षत्वम्” । गविष्ठिरो युधिष्ठिरो गोशब्दादहलन्तादपि निपातनादीपोऽनुप् । गविस्थिरो युधिस्थिर इत्यन्यत्र ।
।
नान्ते ||५|| ६ || पदस्य आदावन्ते च षत्वं न भवति । दधि सिञ्चति । मधु सिञ्चति । अग्निस्तत्र । वायुस्तत्र । “इण्कोः” [५।४।३७] “त्यादेशयोः” [ ५।४।३१] इति षत्ये प्राप्तै प्रतिषेधः ।
सात् ||५|४|७७॥ सादित्येतस्य च पत्वं न भवति | अग्निसात् । मधुसात् ।
सिचो यङि || ५|४|७८ ॥ सिचो यङि परतः पत्वं न भवति । सेसिच्यते । “त्यादेशयोः " [५/४/३६ ] इति प्राप्तिः । अथामिसेसिच्यते परिसेसिच्यते इत्यत्र गिलक्षणं षत्वं कस्मान्न भवति ? "येन
For Private And Personal Use Only