________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्र० ५ पा० १ सू० ६६-७१ ]
महावृत्तिसहितम्
मातृपितृभ्यां स्वसुः || ५|४|६६ ॥ मातृपितृभ्यां परस्य स्वसृसकारस्य षो भवति । मातृष्वसा । पितृष्वसा । श्रनादेशकारोऽयम् । स इत्येव । वाक्ये न भवति । मातुः स्वसा । पितुःस्वसा ।
वानुपि || ५|४| ६७ || अनुपि से मातृपितृभ्यामुत्तरस्य स्वसृसकारस्य वा पो भवति । मातुःष्वसा । मातुः स्वसा । पितुःष्वसा । पितुः स्वसा । ताया अनुप् ।
Acharya Shri Kailassagarsuri Gyanmandir
1
गिप्रादुर्भ्यां यच्यतेः || ५|४|६८ || स इति निवृत्तम् । गेरिणः प्रादुःशब्दाच्चोत्तरस्य ग्रस्तेः सकारस्य यकारादी अजादौ च षत्वं भवति । श्रभिष्यात् । निष्यात् । प्रादुःष्यात् । श्रभिषन्ति । निषन्ति । प्रादुःषन्ति । गिप्रादुर्भ्यामिति किम् ? दधि स्यात् । मधु स्यात् । यचोति किम् ? अनुस्वः । ग्रनुस्मः । स्तेरिति किम् ? केवलं सकारं क्रियावाचिनं प्रति गिसञ्ज्ञायां पत्वमत्र स्यात् । अनुसूते इति अनुसूः । श्रनुस्वः श्रपत्यम् ग्रानुसेयः । “चतुष्पाद्भ्यो ढञ् " [३।१।१२३] इति ढञ । “ढेः खम्” [४|४|१३५ ] इति ऊकारस्य खम् । प्रादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ।
निर्दुस्सुः सुपिसूतिसमाः || ५|४|६६ || निस् दुस् सुवि इत्येतेभ्यो गिभ्य उत्तरेषां सुपिसूतिसमानां सकारस्य पो भवति । निष्षुप्तः । दुष्षुप्तः । सुपुतः । विषुतः । निःषूतिः । दुःपूतिः । सुषूतिः । विषूतिः । निःषमः । दुःषमः । सुषमः । विषमः । “गिप्रकरणे सर्वत्र सुदुर्भ्यां योगे पत्वं नेष्यते" इति वचनम् । “सुदुसोः प्रतिषेधो नुंविधिनत्वषत्वणत्वेपु" इति वचनात् । सम इति सर्वादिषु पठ्यते । तस्य "सम ष्टम श्रवैकल्ये " [ धा० ] इत्यनेन व्युत्पत्तिपक्षेऽपि ग्रहणम् । सूतिरिति सूतेः सूयतैः सुवतेश्च क्यन्तमेव रूपं समशब्दसाहचर्याद्गृह्यते । तेन विसृतमित्यादौ पत्वं न । सुपीति विकृतनिर्देशादिह मा भूत् विस्वन इति । विवात् तर्हि कस्मान्न भवति । "हलोऽनादेः " [ ५/२/१६१] इति खे कृते पश्चाज्जिरिति सुपिरत्र नास्ति । नैष युक्तः समाधिः । हलोऽनादेः खात्प्राग्जिर्भवतीत्युक्तम् । एकदेशविकृतस्य चानन्यत्वात् सुपिरेवायमिति प्राप्नोति । स्थादीनामेव चस्य नान्येषामित्यपि नास्ति । सुनोत्यादिषु स नियमो निवर्तकः । एवमप्यनर्थकोऽयं सुपिः । द्विः प्रयोगेऽपि द्वित्वे समुदायस्यैवार्थवत्ता न केवलस्य धोर्नापि चस्य । विषुषुपतुर्विषुषुपुरित्यत्र "पूर्वत्रासिद्धीयमद्विवे" [ ५० ] इति सुपिः षत्वभूतो द्विरुच्यते । रोरित्येव । निर्गता सूतिः निःसूतिः ।
विकुशमीपरेः स्थलम् ||५|४|७०॥ विकु शमी परि इत्येतेभ्यः परस्य स्थल सकारस्य पत्वं भवति । विष्टलम् । कुष्ठलम् । विकू यदि तिसौ तदा स्थलशब्देनाजन्तेन "तिकुप्रादयः " [१1३1८१] इति सः | प्रतिसञ्ज्ञा चेत्तासः । शमिष्टलमिति सञ्ज्ञायां “त्वे डयापोः क्वचित् खौ च " [ ४।३।१७३ ] इति परिष्टलम् ।
स्थः
श्रम्बाम्बगो भूमिसव्यापद्वित्रिकुशेकुशक्वगुमञ्जि पुञ्जिपरमेबहिर्दिव्यग्निभ्यः || ५|४|७१ ॥ अम्बा अम्ब गो भूमि सव्य ग्रुप द्वित्रि कु शेकु शकु श्र मञ्जि पुजि परमे बहिष् दिवि श्रग्नि इत्येतेभ्यः उत्तरस्य स्थासकारस्य पो भवति । अम्बाष्टः । सञ्ज्ञायां तु " त्वे ङयापोः क्वचित्खौ च" [४|३|१७३] इति प्रादेशे सत्यम्बाष्ठः | अम्बष्ठः । गोष्ठः । गावस्तिष्ठन्त्यस्मिन्निति घञर्थे कविधानम् । भूमिष्ठः । सव्येष्ठः सारथिः । ग्रपष्ठः । द्विष्ठः । त्रिष्टः । कौ कुत्सितं तिष्ठतीति कुष्ठः । शेकुष्ठः । शङ्कुष्टः । श्रष्टः । मञ्जिष्टः । पुञ्जिष्ठः । परमेष्ठः । बहिष्ठः । दिविष्ठः । श्रग्निष्ठः । सर्वत्र " सुपि " [ २२७] “स्थः " [रारा] इति कः । स्थ इत्यकारान्तो निर्देशः किम् ? गोस्थानम् । गोस्थितिः । अथ सव्येष्ठा सारथिः । परमेष्ठी विधिः । " परमे कित्" [ उ० सू० ] इति इनि च कथं पत्त्रम् ? सुषामादिष्वेतौ द्रष्टव्यौ । “पे कृति बहुलम्” [४।३।१३२] इतीपोऽनुप् ।
५२
सुषामादिषु च || ५|४|७२ ॥ सकारस्य षो भवति । स्यतेर्मनि साम । शोभनं सामाऽस्य सुपामा | एवं निःपामा । दुःषामा । सुषेधः । निःषेधः । दुःषेधः | "सुः पूजायां न गिति” [ ११४१७ ] इति सोः निर्दुपोश्च क्रियान्तरविषयत्वादगित्वमिति गिलक्षणं प्रत्वं नास्ति । गित्वेऽपि सेघते: “सेधो गतौ” [५/४/७६ ]
For Private And Personal Use Only