SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०८ जैनेन्द्र-व्याकरणम् [ श्र० ५ पा० ४ सू० ५६-६५ परेः ||५||४|५६ || परेरुत्तरस्य स्कन्दः सकारस्य वा पत्वं भवति । परिष्कन्ता । परिस्कन्ता । तसकेsपि यथा स्यादिति योगविभागः । परिष्करणः । परिष्कन्नः । Acharya Shri Kailassagarsuri Gyanmandir परिस्कन्दः प्राच्यभरतेषु || ५|४|५७ || प्राच्यभरतेषु परिस्कन्द इति निपात्यते । पचाद्यचि पूर्वेण पक्षे प्राप्तस्य पत्वस्याभावो निपात्यते । परिस्कन्दो वहति । प्राच्यभरतेष्विति किम् ? परिष्कन्दः । परिस्कदः । स्फुरिस्फुल्योर्निनिवेः || ५|४|५८ || निस निवि इत्येतेभ्यः परयोः स्फुरि स्फुलि इत्येतयोः सकारस्य वा पकारो भवति । शर्व्यवायेऽपि त्वम् । निःष्फुरति । निःस्फुरति । निष्फुरति । निस्फुरति । विष्फुरति । विस्फुरति । निःष्फलति । निःस्फुलति । निष्फलति । निस्फुलति । विष्फुलति । विस्फुलति । वैः स्कम्भः षः ||५|४|५६ || वेरुत्तरस्य स्कम्नातेः सकारस्य षकारो भवति । विष्कम्नाति । विष्कम्भकः । पुनः ग्रहणं नित्यार्थम् । स्कम्भिः सौत्रो धुः षोपदेशः । इणः षीध्वं लुलियां धो गोर्टः || ५|४|६० ॥ इणन्ताद्गोरुत्तरेषां षीध्वंलुलियां धकारस्य ढकारादेशो भवति । च्योषीढवम् । प्लोवीवम् । श्रच्योदवम् । प्लोवम् । “घि” [ ५।३।४३ ] इति सखम् । चकृट्वे । वत्रृवे । “कृ” [ ५।१।१११] श्रादिनेट्प्रतिषेधः । ण इति किम् ? कवर्गान्मा भूत् । पक्षीध्वम् । यक्षीध्वम् । लुलियामिति किम् ? स्तुध्वे । स्तुध्वम् । लिङीति कर्तव्यं षीध्वमिति किम् ? श्रधीयीध्वम् । स्तुवीभ्वम् इत्यत्र मा भूत् । ध इति किम् ? व्योषी वमित्यत्र परस्यादेर्माभूत् । गोरिति किम् ? परिवेविषीध्वम् । अत्र वोः पकारस्य ईध्वंशब्दस्य च समुदायः षीध्वंशब्दो न तु गोः परः । श्रर्थवग्रहणपरिभाषा चानित्या । तेन "श्रनिनस्मन्प्रहणान्यर्थवता चानर्थकेन" [१०] इति सिद्धम् । वेटः || ५|४|६१ ॥ इणन्तात् गोरुत्तरो यः इट् ततः परेषां पीध्वंलुलियां धकारस्य ढकारादेशो वा भवति । इट्पक्षे परत्वं श्रुतिकृतमाश्रीयते । लविषीदवम् । लविषीध्वम् । इट इरग्रहणेन ग्रहणात् । पूर्वेण नित्ये प्रा'ते । अलविदवम् । अलविध्वम् । सेरिडागमो न लुङ इति तद्ग्रहणाभावाद् व्यवधानमस्तीत्यप्राप्ते लुलुविट्वे । लुलुविध्वे । श्रत्र लिट एवेडागम इति प्राप्ते विकल्पः । इणन्ताद्गोरित्येव । श्रासिषीध्वम् । उपदिदीयिध्वे इत्यत्र “दीङोऽचि क्ङिति युट्” [४|४|६२ ] इति युटि कृते इणन्ताद्गोरानन्तर्यमिटरसमुदायभक्तेन युटा विहतमिति त्वं न भवति । तस्मान्न नित्यो विधिः । अस्ति त्रेणन्ताद्गोरुत्तरो लिट् तत्सम्बन्धी च यकारः । एवं तर्हि वेति व्यवस्थितविभाषा पूर्वमवलोकते । ततोऽत्रापि विकल्पः । सेऽङ्गलेः सङ्गः || ५|४|६२ ॥ अङ्गुलेरुत्तरस्य सङ्गसकारस्य पत्वं भवति से । सङ्ग इत्यत्र " सूत्रेऽस्मिन् सुब्विधिरिष्टः ” [ ५/२/११४ ] इति ङसः स्थाने सुः । अङ्गुलिषङ्गो दृढ़ः । अङ्गुलिषङ्गा यवागूः । । भावे कर्मणि च घञ । इत्येव अङ्गुलेः सङ्गः । श्रङ्गुलिपदात्परस्य पदस्य पत्वारम्भाद्विभक्त्या व्यवधानेऽपि प्रसज्यते । भीरोः स्थानम् ||५|४|६३॥ भीरोरुत्तरस्य स्थानसकारस्य पत्यं भवति से । भीरुष्ठानम् । स इत्येव । भीरोः स्थानम् । अधिकारणे युट् । पृथग्योगकरणं स्पष्टार्थम् । ज्योतिरायुषः स्तोमः || ५|४|६४ || ज्योतिष् श्रायुधू इत्येताभ्यामुत्तरस्य स्तोमसकारस्य पो भवति । ज्योतिष्टोमः | आयुःष्टोमः । " शरि सश्च" [ ५/४/२३] इति विसर्जनीयः सत्यं वा । तस्य ष्टुत्वम् । ज्योतिः स्तोमस्य दाहकम् । स्तुत्सोमौ चाग्नेः || ५|४|६५॥ अग्नेरुत्तरयोः स्तुत् सोम इत्येतयोः स्तोमस्य यः सकारस्तस्य से पो भवति । श्रग्निष्टुत् । क्विवन्तेन वाक्सः । श्रग्नीषोमौ । "गौणमुख्ययोर्मुख्ये सम्प्रत्ययात् " [१०] इह न भवति । ग्निगुणसगुण अग्निसोमौ मनुष्यौ । श्रत एवाग्नेरीत्वाभावः । अग्निष्टोमः । व्युत्पत्तिपत्रे "नाद्यन्ते " [५/४/७६ ] इति प्रतिषेधः प्राप्तः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy