________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ४ सू० ४७-५५] महावृत्तिसहितम् अभ्यषजत् । चेन च व्यवाये-अभिषिषक्षति । अभिष्वजते । अभ्यध्वजत् । चेन च व्यवाये। अभिषिष्वङ्क्षते। गेरित्येव । दधि सिञ्चति ।
सदोऽप्रतः ॥ ४७॥ अप्रतेर्गः परस्य सदेः सकारस्य षत्वं भवति । अभिषीदति । निषीदति । अभ्याधीदत् । न्यषीदत् । चस्य । अभिविषत्सति । अभिषसादेत्यत्र "सदिस्वज्योः परस्य लिटि" [५।४।४] इति धोः पत्वप्रतिषेधः। अप्रतेरिति किम् ? प्रतिसीदति ।
स्तम्भः॥१४॥४८॥ गेरिणः परस्य स्तम्भेः सकारस्य षत्वं भवति । अभिष्टभ्नाति । प्रतिष्टभ्नाति । अभ्या: मनात । पर्यष्टभ्नात । चेन च व्यवाये-अभितष्टम्भ । प्रतिताष्टभ्यते । स्तम्भिः सौत्रो धः। तस्य अषोपदेशत्वादप्राते प्रतिषिद्ध वा षत्वे सूत्रं प्रतिसङ्ग्रहार्थम् । उत्तरार्थं च पृथक्करणम् ।
आलम्बनाविदूरेऽवात् ॥५॥४॥४६॥ अनिणर्थ आरम्भः । अवाद्गेरुत्तरस्य स्तम्भः सकारस्य पत्वं भवति पालम्बने अविदरे चार्थ । अवष्टभ्य श्रास्ते। अवष्टभ्नाति । अवाष्टभ्नात् । अवतष्टम्भ । अविदुरे-अवष्टव्धे सेने । अवष्टब्धा शरत् । श्रालम्बनाविदूरे किम् ? अवस्तब्धो वृषभः । विदूरप्रतिषेधान्नातिदूरमासन्नं च सङ्ग्रहीतम् ।
वेश्च स्वनोशने ॥२४॥५०॥ वेरवाच्चोत्तरस्य स्वनः सकारस्य पत्वं भवत्यशनेऽर्थे । विष्वणति । सशब्दमश्नातीत्यर्थः । अवष्वणति । व्यष्वणत् । अवावणत् । चेन च व्यवाये -विषप्वाण । अवषष्वाण । विषप्वण्यते । अशन इति किम् ? वित्वनति । अवस्वनति मृदङ्गः। नात्राभ्यवहारविशेषः ।
परिनिविभ्यः सेवसितसयाम ॥१४॥५२॥ परि नि वि इत्येतेभ्यः परेषां सेव सित सय इत्येतेषां सकारस्य पो भवति । सेव इति भौवादिकः सेवार्थो धुह्यते । परिषेवते । निषेवते । विषेवते । पर्यषेवत । न्याषेवत । व्यषेवत । चेन व्यवाये-परिषिषेविषते । परिषितः । निषितः । विषितः । परिषयः । निषयः। विषयः । पिन बन्धन इत्यस्य क्तान्तस्याजन्तस्य च ग्रहणम् । केचित्तु-सह (योगाकरणान्नियमार्थमेषों) ग्रहणमिच्छन्ति । एतेभ्य एव परस्य पत्वमिति । सेवादीनां स्वरितत्वाभावाद्यथासह ख्यं न भवति ।
सिवुसहसुट्स्तुस्वञ्जाम् ॥१४॥५२॥ परिनिविभ्यः परेषां सिव सह सुट् स्तु स्वज इत्येतेपी सकारस्य पो भवति । परिषीव्यति । निषीव्यति। विषीव्यति । परिषद्दते । विषहते । निषहते । सुट परिमेव प्रयोजयति । परिष्कर्ता । परिष्करोति । “संपर्युपात्कृतः सुट् भूषे" [१।३।११०] इति सुट् । तस्यानादेशत्वादप्राप्ते इतरयोर्नाद्यन्त इति प्रतिषिद्धे पल्वे वचनम् । गेः परयोः षत्वसिद्धेः स्तुस्वोर्ग्रहणमुत्तरार्थम् । अटो व्यवाये विकल्पो यथा स्यात् ।
वाटा ॥१४॥५३॥ सिवादीनामटा व्यवाये वा षो भवति । परिनिवेरिति वर्तते । पर्यषीव्यत । न्यपी. व्यत् । पर्यसीव्यत् । न्यसीव्यत् । व्यषीव्यत् । पर्यषहत। व्यसीव्यत् । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । पर्यष्टौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत । व्यस्तौत् । पर्यष्वजत । न्यप्वजत । व्यण्वजत । पर्यस्वजत । न्यस्खजत । व्यस्वजत । सिवुसहसयामप्राप्ते स्तुस्वञ्जः प्राप्ते विभाषा ।।
निव्यभ्यनुपरेः स्यन्दोऽजीवे ॥१४॥५४॥ नि वि अभि अनु परि इत्येतेभ्यः परस्य स्यन्देः सकारस्य वा पत्वं भवत्यजीवे । परिष्यन्दते । निष्यन्दते । विष्यन्दते । अभिप्यन्दते। अनुष्यन्दते। विस्यन्दते। अभि. स्यन्दते। परिस्यन्दते जलम् । अजीव इति किम् ? अनुस्यन्दते मत्स्यः । अजोय इति पर्युदासोऽयम । जीवा जीवसमुदायो जीवादन्यो भवतीति विकल्पः सिद्धः । अनुष्यन्देते मत्स्योदके । अनुस्पन्देते । अप्राप्ते विकल्पः ।
वेः स्कन्दोऽते ॥१४॥५५॥ वेरुत्तरस्य स्कन्देः सकारस्य वा पत्वं भवत्यते परतः । विष्कन्ता । .विष्कन्तुम् । विस्कन्ता। विस्कन्तुम् । अत इति किम् ? विस्कन्नः । विस्कनवान् ।
For Private And Personal Use Only