________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
जैनेन्द्र-व्याकरणम्
[अ० ५ पा० ४ सू० ३५-४६
कृकम्यादिग्रहणं किम् ? पयःपानम् । अत इति किम् ? गीःकारः। धूःकारः । तपरकरणं किम् ? भाः कामः। भास्कर इति “कस्कादौ" । अझेरिति किम् ? प्रातःकारः। स इत्येव । यशः करोति । अद्यस्थ. स्येत्येव । परमयशःकारः । कमेरणिङन्तस्य सूत्रे निर्देशः किम् ? अयस्कान्तः।
शिरोऽधसोः पदे ॥शा३५॥ शिरस् अधस् इत्येतयो रेफस्य सकारादेशो भवति पदशब्दे परतः। शिरस्पदम् | अधस्पदम् । मयूरव्यंसकादित्वात्सः । से इत्येव । शिरसः पदम् । अास्थस्येव । परमशिरःपदम् ।
कस्कादौ ॥४॥३६॥ कस्क इत्येवमादिषु रेफस्य सकारादेशो भवति । यथा ते तत्र पठ्यन्ते तथैव तेषां साधुत्वम् | कस्कः । किमः तसन्तस्य वीप्सायां द्वित्वम् । कौतस्कुतः। समुदायस्यामृत्त्वेऽपि वचनात् तत अागतेऽर्थेऽण् । भातुष्पुत्रः। सेऽपि "ऋतो विद्यायोनिसम्बन्धात्" [१२।१३६] इत्यनुप् । “इणः षः" [५।४।२७] इति षत्वम् । शुनस्कर्णः ! असञ्ज्ञायां "ताया आक्रोशे" [४।३।१३४] इत्यनुप् । सज्ञायां तु श्वकर्ण इति । सद्यस्कालः। सद्यस्क्रीः। सम्पदादित्वात् क्विप। तत्र भवः साद्यस्क्रः । तमस्काण्डम् । अयस्काण्डम् । तपस्काण्डम् । मेदस्पिण्डः । श्राकृतिगणोऽयमविहितलक्षणं सत्वमिति द्रष्टव्यम् ।
इणकोः सः षः ॥५॥४॥३७॥ इणः कबर्गाच्चोत्तरस्य सकारस्य पत्वं भवतीत्वेषोऽधिकारो वेदितव्यः । वक्ष्यति "त्यादेशयोः" [पा४।३६] । मुनिषु । देवेषु । गीए । वाक्षु । प्राक्षु । उदङक्षु । सिपेव । सुष्वाप । इण्कोरिति किम् ? यास्यति । “क्षियाशीःप्रेषेषु" [५।३।१०२] इति निर्देशादिणपरेण णकारेण गृह्यते । स इति स्थानिनिर्देशो रेफस्य स्थानित्वनिवृत्त्यर्थः। पुनः धग्रहणं कुप्वोरित्यस्य निवृत्त्यर्थम् । उत्तरत्र "नाद्यन्ते" [५४७६] इति प्रतिषेधात् पदस्येत्येतदनुवर्तमानमिह विशेषणरूपेण सम्बन्ध्यते ।
नुम्शर्व्यवायेऽपि ॥५॥४॥३८॥ नुमव्यवाये शयवाये अव्यवायेऽपि इणकोरुत्तरस्य सकारस्य षकारादेशो भवति । सीषि । धनूंषि । अत्र नुमादेशो नुम् । तेनेह न भवति । पुंसु । शर्व्यवाये। सर्पिष्णु । धनुष्षु । रेः सत्त्वे कृते वरस्य पत्वम् ।
[त्यादेशयोः ॥२४॥३६॥ शास्वस्घसाम् ॥१४॥४०॥ षणि चारिणस्तोरेव ॥४४॥ सस्विदिस्खदिसहः ॥१४॥४२॥ प्राक् सितादटापि ॥५॥४॥४३॥ स्थादेश्वेन चस्य ॥४४॥ गेः सूत्रसूसोस्तुस्तुभः ॥२४॥४५॥]
..........'म इति पत्वे य.........'माश्रीयते। अभितष्ठावित्यत्र चस्य टवर्गः स्यात् । चस्य च गेः परस्य सत्त्वं भवतीदमपि नियमार्थवचनम् । अभिषिषिक्षति । परिषिषिक्षति। अत्र द्विः प्रयोगो द्वित्वं गोः सिच इत्येव षत्वं सिद्धम् । “सिद्धे सत्यारम्भो नियमाय ।" स्थादीनामेव वक्ष्यमाणानां चस्य षत्वम् । चेन च व्यवायेनान्येषां सुनोत्यादीनाम् । अभिसुषूषति । अभिसिषासति । स्थादीनां चस्यैवेति न शङ्कयम्... 'ये विधानमनर्थ स्यात् ।
स्थासेनयसेधसिचसञ्जस्वजाम् ॥४६॥ गैरिति वर्तते । गेः परेषां स्था से नय सेध सिच सञ्ज स्वज इत्येतेषां सकारस्य पत्वं भवति । अभिष्ठास्यति । परिष्ठास्यति । अटा व्यवाये-अभ्यष्ठात् । पर्यष्टात् । चेन च व्यवाये-अभितष्ठौ । अभिषेणयति । अभ्यषेण्यत् । अतिषिषेणयिषति। अत्रादेशसकाराभावादप्राप्ते विधिः । सेध इति भौवादिकस्य ग्रहणम् । अभिषेधति । निषेधति । अभ्यषेधत् । न्यषेधत् । चस्य च । अभिषिषेध । निषिषेध । अभिषिञ्चति । अभ्यषिञ्चत् । चेन च व्यवाये-अभिषिषिक्षति। अभिषजति ।
१. प्रतिषु [ ] कोष्ठकान्तर्गतानां सूत्राणां वृत्तिस्त्रुटिता । सूत्राणि तु जैनेन्द्र पञ्चाध्यायीमनुसृत्यात्र निर्दिष्टानि ।
For Private And Personal Use Only