________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० ४ सू० १२३-१३३] महावृत्तिसहितम्
शात् ॥५।४।१२३॥ शकारात् पररय तवर्गस्य यदुक्तं तन्न भवति । किमुक्तम् ! चुत्वम् । प्रश्नः । विश्नः । पदान्तस्य शकारस्याभावात् अपदान्ते प्रतिषेधः ।
खशः शो यो वा ॥१४।१२४॥ खुश इत्येतस्य शकारस्य यकारो भवति वा। आख्याता। श्राख्शाता । पर्याख्यानमिति यत्वस्यासिद्धत्वात् "कृत्यचः" [५।४।१०८] इति णत्वं नास्ति । वेति योगविभागः । तेन चुना योगे "व उठजेः" इति लब्धम् । उब्जिता । उब्जितुम् । उब्जितव्यम् ।
यरो ङो विभाषा में ॥५॥४१२५॥ पुनः पदस्येति सामर्थ्यात् पदान्त इति लभ्यते। यरः पदान्तस्य विभाषया ङादेशो भवति डे परतः । सुवाङ्नयति । सुवाग नयति । षण्मुखः । षड्मुखः । सन्नयनम् । सद्नयनम् । ककुम्मण्डलम् । ककुमण्डलम् । पदान्तस्येति किम् ? सम। स्तम्नाति । वेत्यनुवृत्तौ विभाषाग्रहणां व्यवस्थार्थम् । तेन त्ये नित्यं भवति । वाङ्मयम् । त्वङ्मयम् । षण्णाम् । वाचो विकारः । “नित्यं दुशरादेः" [३।३।१०६] इति मयड् । त्वचः अागतं “हेतुमनुष्याद्वा रूप्यः" [३।३।५५] । “मयट" [३।३।५६] इति मयट् ।
अचो रहाद् द्वे ॥२४|१२६॥ अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो विभाषया द्वे रूपे भवतः । अर्कः। अर्कः । तर्कः । तर्कः । ब्रह्मन् । ब्रह्मन् । सह्यम् । सहह्यम् । अच इति किम् ? हुनुते । विभाषेल्यनुवृत्तेर्व्यवस्था । शरोऽचि द्वित्वन्न भवत्येव । आदर्शः । वर्षति । तसंम् । “रहौ निमित्तभूतौ द्वित्वस्य न च निमित्तिकार्य निमित्तस्य" । तेनेह न भवति । भद्रहदः ।
अनचि ॥५॥४११२७|| रहादिति निवृत्तम् । अच इति वर्तते यर इति च । अच उत्तरत्य यरो विभाषया द्वे भवतः अनचि । दद्धयत्र । दध्यत्र । मद्ध वत्र । मध्यत्र । अत्र यकारवकारौ निमित्तम् । अनचीति यदि पर्यदासः हल्ग्रहणं कर्तव्यम । एवं तर्हि प्रसज्यप्रतिषेधोऽयम्। अचि नेति । तेन हल्यवसाने च द्वित्वम् । वाक्क । बाक । त्वक्कू । त्वक् । अच इत्येव । स्नातम् । प्सातम् । व्यवस्थितविभाषाधिकारात "त्रिप्रभृतिषु न भवति" [वा०] । इन्द्रः । राष्ट्रम् । “यणः परस्य मयोऽचि विकल्पः" [वा०] । उल्क्का । उल्का । वल्म्मीकः । वल्मीकः । “शर उत्तरस्य खयः" वा०] । स्थाली । स्थाली । "खय उत्तरस्य शरोऽपि" [वा०] । अप्सरः । अप्सरः । “पुत्रादिनी त्वमसि पापे इत्याक्रोशे नेष्यते" [वा०] । “द्विमात्रात्परस्यापि” [या०] । पात्रम् । सूत्रम् ।
भलां जश् झशि ॥शा१२८॥ झलां वर्णानां जशादेशो भवति झशि परतः। लब्धा । दोग्धा । अबुद्धाः । अपदान्तार्थ प्रारम्भः । भशीति किम् ? दध्महे ।
चे चर्वम् ॥१४।१२६॥ चे वर्तमानानां झलां चवं भवति जश्त्वं च । चिखनिषति । चिच्छेद । डिढक्काविषति । तिष्ठासति । पम्फुल्यते। जिघत्सति । बुभुत्सते । डुढौके । दधौ। प्रकृतिचरां प्रकृतिचरः प्रकृतिजशां प्रकृतिजशो भवन्ति । अभिन्नरूपा इत्यर्थः । चिचीपति । टिटीके । ततार | पपौ। जिजनिषते । बुबुधे । डिडेप । ददौ । सर्वत्र “स्थानेऽन्तरतमः" [१॥१॥४७] इति व्यवस्था ।
खरि ॥५॥४।१३०॥ झला खरि परतः चर्भवति । भेत्ता । भेत्तुम् । बिभित्सति ।
विरामे वा ॥१४॥१३१॥ विरामे वर्तमानानां झलां वा चत्वं भवति । वाक् । वाग। मधुलिट् । मधुलिइ । तत्त्वभुत् । तत्त्वभुद् । ककुम् । ककुब् ।
यय्यनुस्वारस्य परस्वम् ॥ १३२॥ ययि परतः अनुस्वारस्य परस्वं भवति । शङ्कितः । अञ्चितः । हिण्डितः । शान्तः । कृषन्तीत्यत्र णत्वप्राप्तेरसिद्धत्वादनुस्वारः । परस्वत्वम् । तस्यासिद्धत्वात्पश्चादपि णत्वाभावः। ययीति किम् ? रिरंसते।
वा पदान्तस्य ॥५॥४॥१३३॥ पदान्तस्यानुस्वारस्य वा परस्वत्वं भवति ययि परतः। शुद्धं करोति । शुद्धङ्करोति । ययीत्येव । त्वं शेषे ।
For Private And Personal Use Only