________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१८
जैनेन्द्र-व्याकरणम्
[ अ० ५ पा० ४ सू० १३४ - १४०
तोर्लि || ५|४|१३४ ॥ तवर्गस्य लकारे परतः परस्वत्वं भवति । तडिल्लोला । भवाँल्लोकेशः । नकारस्य नासिक्यो लकारः । वेति नाधिकृतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्थास्तम्भोः पूर्वस्योदः || ५|४|१३|| स्था स्तम्भ इत्येतयोरुदः परयोः पूर्वस्य स्वं भवति । उत्थाता उत्थातुम् । उत्थातव्यम् । उत्ताम्भिता । उत्तम्भितुम् । उत्तम्भितव्यम् । उद इति कानिर्देशात् परस्यादेः अघोषस्य सकारस्य तकारः । स्थास्तम्भोरिति किम् ? उत्स्विन्नः । पूर्वस्येति किम् ? परस्वनिवृत्त्यर्थम् । उद इति किम् ? संस्थितिः ! उद इति योगविभागः कल्पनीयः । तेन स्कन्देरपि रोगे पूर्वस्वम् । उत्कन्दको नाम रोगः ।
झयो हः || ५|४|१३६ ॥ यः पदान्तादुत्तरस्य हकारस्य पूर्वस्वं भवति । सुवाग्घसति । मधुलिड्ढरति । धर्मविद्धितम् । ककुब्भसति । महाप्राणस्योष्मणः स्थाने तादृश एव पूर्वचतुर्थो भवति । "चतुष्टयं समन्तभद्वस्य” [५।४।१४०] इति वक्ष्यति तेन विकल्पः । सुवाग हसति । मधुलि हरति । धर्मविद हितम् । ककुच् हसति । य इति किम् । प्रा हसति
शरछोटि || ५|४|१३७॥ शयः पदान्तादुत्तरस्य शकारस्य टि परतश्छकारो भवति । वाक्छोभते । धर्मविच्छेते । ककुप्छोभते । पक्षे न भवति । वाक् शोभते । धर्मवित् शेते । ककुपशोभते । केचित् शश्छो ऽमीति पठन्ति । तेन तच्छूलोकः । तच्छ्वसनमिति ।
हलो मां यमि खम् ||५|४|१३८ || हल उत्तरेषां यमां यमि परतः खं भवति । शय्या इत्यत्र " समज" [२३८१] आदिसूत्रेण क्यपि अयङि च कृते द्वौ यकारौ । क्रमजस्तृतीयः । मध्यमस्यानेन खम् । पक्षे न भवति । शय्या । आदित्य्य इत्यत्र अपत्यार्थे द्वौ यकारौ । “सास्य देवता” [३।२।१६] इति तृतीयः । क्रमजश्चतुर्थः । मध्यमस्य मध्यमयोर्वा खम् । हल इति किम् ? अन्नम् । यमामिति किम् ? अर्ध्यं मधु | अर्धमर्हति । श्रर्घार्थं वा । " पाद्यार्थ्ये” [ ४।२।३२ ] इति निपातनन् । यमीति किम् ? शार्ङ्गम् | यथासंख्यविज्ञानादिह न भवति । पित्र्यम् ।
झरो भरि स्वे ॥ ५२१३६॥ हल उत्तरस्य झरो भरि स्वे परतः खं भवति । प्रत्तमवत्तमित्यत्र “गे स्तोऽचः” [५|२| १४६ ] इत्याकारस्य तकारे कृते त्रयस्तकाराः । क्रमजश्चतुर्थः । मध्यमस्य मध्यमयोर्वा खं विकल्पावलोकनात् । मरुत्त इत्यत्र मरुच्छब्दस्य गित्वोपसंख्यानं सामर्थ्यादन जन्तादपि तकारे कृते चत्वा रस्तकाराः । क्रमजः पञ्चमः । मध्यमस्य मध्यमयोर्मध्यमानां वा खम् । झर इति किम् ? शार्ङ्गम् । झरीति किम् ? प्राप्नोति । स्वे इति किम् ? तप्त । याथासंख्यात्सिद्धमिति चेत् । उज्झिता । शिष्टि । पिण्टि इत्यत्र चतुर्थेऽपि स्वे तृतीयस्य खं यथा स्यात् ।
चतुष्टयं समन्तभद्रस्य || ५|४|१६० झयो ह इत्यादि चतुष्टयं समन्तभद्राचार्यस्य मतेन भवति नान्येषां ते । तथा चैवोदाहृतम् ।
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरण महावृत्तौ पञ्चमस्याध्यायस्य चतुर्थः पादः समाप्तः । समाप्तश्च पञ्चमोऽध्यायः ।
For Private And Personal Use Only